पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः 61 श्लो. १३ (व्या) अवश्यकर्तव्य तारू पशासनेस्यादि - मूलस्थ शिष्टशब्दो विधिविहितमाह, अत एवं व्याख्या | यज्ञपदमवश्य- कर्तव्यं यथा बोधयति तथोपादितं पूर्वमेव । शिष्टपदमवशि- ष्टार्थकमपि संभवति इत्यतो व्याख्यानान्तरमाह- अथ चेत्या- दिना । आत्मकारणादिति इति । इति शब्दप्रदानपूर्वकम् अत्र व्याख्यातुराचार्यस्यायमाशयः - 'आत्मकारणात्' इति पदं तादृशाकारकज्ञान परमिति | तादृशज्ञानस्य कारणं विशदयति - अविद्यावशात् इत्यादिना । उक्तज्ञानस्वरूप मभिनीय दर्शयति आत्मार्थमिदं कुर्मः इति ॥ - श्लो. १४-१५ (व्या) मायाविद्येत्यादि । माया विद्या इति च्छेदः । अनवच्छिन्नेत्यादि । अव अनवच्छिन्नत्वस्य अनन्तत्वस्य च स्वातन्त्र्यविशेषणत्वे प्रयोजनाभावः; स्वातन्त्र्यम् अविच्छिन्नमपि इत्यनेनैव गतप्रायत्वात्, अविच्छिन्नमपि इति अपिशब्दद्योतित- विरोधस्य यम्यक् आञ्जस्यानुपपत्तेश्च । एवं च अवच्छिन्नान- न्तेति विवक्षितं स्यात् इति भाति । अवच्छिन्ना देशतः काललो व्यक्तितश्च ये अनन्ताः असंख्याका भावाः; तेषु विषये स्वातन्त्र्येण पूर्णमिति । इदं च सामानाधिकरण्येन ब्रह्मणि अन्वेति । समु- च्चलन् महेश्वरभाबो यस्य तस्य परमात्मनो ब्रह्मण इत्यर्थः । अथवा अनवच्छिन्नम् इति च स्वतन्वतया ब्रह्म विशेषणम् | अन- बच्छिन्नम् अनन्तेषु स्वातन्त्र्यपूर्णं च यत् ब्रह्म इत्यन्वयः । महेश्वरभाव इति सदाशिव मावस्याप्युपलक्षणम्, उभयोः समाव-