पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः मयि सर्वाणि कर्माणि सन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥ मयीति । मयि सर्वाणि कर्माणि 'नाहं कर्ता' इति सन्यस्य 'सर्वतन्त्रः परमेश्वर एव सर्वकर्ता वाहं कश्चित्' इति निश्चित्य लोकानुग्रहं चिकीर्षुः लोकाचारं युद्धात्मकम् अनु- तिष्ठ ॥ ३० ॥ ये मे मतमिदं नित्यमनुवर्तन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते सर्वकर्मभिः ॥ ३१ ॥ ये त्वेतदभ्यसूयन्तो नानुवर्तन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥ ३२ ॥ 53 ये म इति । ये त्वेतदिति । एतच्च मतमाश्रित्य यः कश्चित् यत्किंचित् करोति तत्तस्य न बन्धकम् । एतस्मिस्तु ज्ञाने ये न श्रद्धालव: 2 ते विनष्टाः, अविरतं जन्ममरणादि भय- भावितत्त्वात् ॥ ३१-३२ ॥ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः करिष्यति ॥ ३३ ॥ सदृशमिति । योऽपि च ज्ञानी न तस्य व्यवहारी भोज- नादौ विपर्यासः कश्चित् । अपि तु सोऽपि सत्त्वाद्युचितमेव चेष्टते एवमेव जानन् । यत: 4 भूतानां पृथिव्यादीनां प्रकृती 1. S मयि स्थित्वा सर्वाणि 2. B श्रद्धालवा: 3. S omits आदि 4. B, N अतः