सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

54 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता विलयः आत्मा च अकर्ता नित्यमुक्त इति कस्य जन्मादि- निग्रहः ? ॥ ३३ ॥ कथं तर्हि बन्धः १ इत्थमित्युच्यते । इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥ श्रेयान्स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मोदयादपि ॥ ३५ ॥ इन्द्रियस्येति । श्रेयानिति । संसारी च प्रतिविषयं रागं द्वेषं च गृह्णाति; यतः कर्माणि आत्मकर्तृकाण्येव विमूढत्वादभि- मन्यते इति सममपि भोजनादिव्यवहारं कुर्वतो: ज्ञानिसंसारिणो- रस्त्ययं विशेषः । अयं नः सिद्धान्तः सर्वथा मुक्तसंगस्य स्वधर्मचारिणो नास्ति कश्चित् पुण्यपापात्मको बन्धः । स्वधर्मो हि हृदयादनपायी स्वरसनिरूढ2 एव, न तेव कश्चिदपि रिक्तो जन्तुर्जायते इत्यत्याज्य: ॥ ३४-३५ ॥ अर्जुन उवाच- अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छमानोऽपि बलादाक्रम्येव नियोजितः ॥ ३६ ॥ अथेति । पापं पापतया विदन्नपि जनः कथं तत्व प्रवर्तते इति प्रश्वः । अस्य प्रश्नस्योत्था[प] ने अयमाशयः । स्वधर्मो 1, Nomits इत्थम्; K omits इति 2. B,N,K निगूढः