पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अज्ञावामित्युक्तम् । तदज्ञत्वं दर्शयति- प्रकृतेः क्रियमाणानि गुणैः कर्माणि भागशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥ प्रकृतेरिति । प्रकृतिसंबन्धिभिः गुणैः सत्त्वाद्यैः किल कर्माणि क्रियन्ते । मूढश्च 'अहं कर्ता' इत्यध्यवस्य 1 मिथ्येव आत्मानं बध्नाति ॥ २७ ॥ तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणार्थे वर्तन्ते इति मत्वा न सज्जते ॥ २८ ॥ तत्त्ववित्त्विति । गुणकर्मविभागवित्तु 'प्रकृतिः करोति मम किमायातम्' इत्यात्मानं मोचयति ॥ २८ ॥ कर्मसंगिवामित्युक्तम् । तत् कर्मसंगित्वं दर्शयति- प्रकृतेर्गुणसंमृढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥ २९ ॥ प्रकृतेरिति । प्रकृतिसंबन्धिभिर्गुणैः सत्त्वाद्यैः कृतेषु कर्मसु मूढाः सज्जन्ति सत्त्वादिगुणमाहात्म्यात् ॥ २९ ॥ , 'तस्माद्युक्तः सन् जुषेत कर्माणि' इत्युक्तं तत्र [तत्] कथपिति स्फुटयति- 1. 2. 3. 4. S omits अध्यवस्य B,N omit a S omits कर्मसंगित्वम् S, B omit सस्वाद्ये: 5. B मज्जन्ति