तृतीयोऽध्यायः यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्मानुवर्तेरन्मनुष्याः पार्थ सर्वशः ॥ २३ ॥ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ताहमुपहन्यामिमाः प्रजाः ॥ २४ ॥ सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ २५ ॥ यदीत्यादि लोकसंग्रहमित्यन्तम् । किं च विदितवेद्यः कर्म चेत् त्यजेत्, तत् लोकानां दुर्भेद एव, एकप्रसिद्धपक्षशिथि- लितास्थाबन्धत्वेनाप्ररूढिलक्षणो जायेत । यतः 2 कर्मवासना च व मोक्तुं शक्नुवन्ति ज्ञानधारां च नाश्रयितुम्; अथ च शिथि- लीभवन्ति ।। २३-२५ ॥ यतस्ते न सम्यग्ज्ञानेन पूताः अतो बुद्धेर्भेदनं विचालनं तेषां परमोऽयमनर्थ इत्यनुग्रहाय भेदयेन्न धियमेषाम्; तदाह - न बुद्धिमेदं जनवेदज्ञानां कर्मसंगिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ Si न बुद्धीति । स्वयं चैवं बुद्धयमानः कर्माणि कुर्यात्; न च लोकान बुद्धि भिन्द्यात् ॥ २६ ॥ 1. 2. 3. 4. 5. S, B, K जायते S omits यतः S -स्ते सम्य- B,N विगलनम् S एतदाह
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/११२
दिखावट