पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता 1 तस्मादसक्तः सततं कार्य कर्म समाचर । असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥ १९ ॥ यश्चेत्यादि पूरुष इत्यन्तम् । आत्मरतेस्तु कर्म इन्द्रिय- व्यापारतयैव कुर्वतः करणाकरणेषु समता । अत एव नासौ भूतेषु किंचिदात्मप्रयोजनमपेक्ष्य निग्रहानुग्रहौ करोति, अपि तु 'करणीयमिदम्' इत्येतावता । तस्मादसक्त एव करणीयं कर्म कुर्यात् ॥ १७-१९ । कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेगापि संपश्यन् कर्तुमर्हति ॥ २० ॥ कर्मणैवेति । तदत्व [कर्म] कुर्वतामपि सिद्धौ जनकादयो दृष्टान्ताः ॥ २० ॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं प्रवर्तेऽथ च कर्मणि ॥ २२ ॥ यद्यदाचरतीति । न मे इति । प्राप्तप्रापणीयस्य परि- पूर्णमनसोऽपि कर्मप्रवृत्तौ लोकानुग्रहः प्रयोजनमित्यत श्री भगवान् आत्मानमेव दृष्टान्तीकरोति ॥ २१-२२ ।। 1. S, K give this verse later as verse 24. K gives the corresponding sentence of the commentary तस्मादसक्त एव etc., after आत्मानमेव दृष्टान्तीकरोति, the commen tary on verses 21-22.