पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० २ क्ष्लो०१८ ]
४७
श्रीमद्भगवद्गीता ।


 म० टी०--ननु स्फुरणरूपस्य सतः कथमविनाशित्वं तस्य देहधर्मत्वाद्देहस्य चानुक्षणविनाशादिति भूतचैतन्यवादिनस्तान्निराकुर्वन्नासतो विद्यते भाव इत्येतद्विवृणोति-

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ॥
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥

 अन्तवन्तो विनाशिन इमेऽपरोक्षा देहा उपचितापचितरूपत्वाच्छरीराणि । बहुवचनात्स्थूलसूक्ष्मकारणरूपा विराट्सूत्राव्याकृताख्याः समष्टिव्ययात्मानः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिकसंवन्धेन शरीवत एकस्याऽऽत्मनः स्वप्रकाशस्फुणरूपस्य संबन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर्ब्रह्मवादिभिश्च । तथाच तैत्तिरीयकेऽन्नमयाद्यानन्दमयान्तान्पञ्च कोशान्कल्पयित्वा तदधिष्ठानमकल्पितं “ब्रह्म पुच्छं प्रतिष्ठा' इति दर्शितम् । तत्र पञ्चीकृतपञ्चमहाभूततत्कार्यात्मको विराण्मूर्तराशिरन्नमयकोशः स्थूलसमष्टिः । तत्कारणीभूतोऽपञ्चीकृतपञ्चमहाभूततत्कार्यात्मको हिरण्यगर्भः सूत्रममूर्तराशिः सूक्ष्मसमष्टिः “त्रयं वा इदं नाम रूपं कर्म " इतिबृहदाण्यकोक्तव्यन्नात्मकः सर्वकर्मात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोश उक्तः । नामात्मकत्वेन ज्ञानशक्ति मात्रमादाय मनोमयकोश उक्तः । रूपात्मकत्वेन तदुभयाश्रयतया कर्तृत्वमादाय विज्ञानमयकोश उक्तः । ततः प्राणमयमनोमयविज्ञानमयात्मैक एव हिरण्यगर्भाख्यो लिङ्गशरीरकोशः । तत्कारणीभूतस्तु मायोपहित चैतन्यात्मा सर्वसंस्कारशेषोऽव्याकृताख्य आनन्दमयकोशः । ते च सर्व एकस्यैवाऽऽत्मनः शरीराणत्युक्तम् । तस्यैष एवं शारीर आत्मा यः पूर्वस्य इति । तस्य प्राणमयस्यैष एवं शरीरे भवः शारीर आत्मा यः सत्यज्ञानादिलक्षणों गुहानिहितत्वेनोक्तः पूर्वस्यान्नमयस्य । एवं प्राणमयमनोमयविज्ञानमयानन्दमयेषु येाज्यम् । अथवेमे सर्वे देहास्त्रैलोक्यवर्तिसर्वप्राणिसंबन्धिन एकस्यैवाऽऽत्मन उक्ता इति योजना । तथा च श्रुतिः--

" एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ”

 इति सर्वशरीरसंबन्धनमेकमात्मानं नित्यं विभुं दर्शयति । ननु नित्यत्वं यावत्कालस्था- यित्वं तथाचाविद्यादिवत्कालेन सह नाशेऽपि तदुपपन्नमित्यत आह–अनाशिन इति । देशतः कालतो वस्तुतश्च परिच्छिन्नस्याविद्यादेः कल्पितत्वेनानित्यत्वेऽपि यावत्कालस्थायित्वरूपमौपचारिकं नित्यत्वं व्यवहियते “यावद्विकारं तु विभागो लोकवत्” इतिन्यायात् । आत्मनस्तु परिच्छेदत्रयशून्यस्याकल्पितस्य विनाशहेत्वभावान्मुख्यमेव कूटस्थनित्यत्वं नतु परिणामिनित्यत्वं यावत्कालस्थायित्वं चेत्यभिप्रायः । नन्वेतादृशे देहिनि