पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
[अ० २क्ष्लो ०१८-३०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


किंचित्प्रमाणमवश्यं वाच्यमन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तेः शास्त्रारम्भवैयर्थ्यापत्तेश्च । तथाच वस्तुपरिच्छेदो दुष्परिहरः "शास्त्रयोनित्वात् ” इति न्यायाच्च, अत आह-अप्रमेयस्येति । “एकचैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् " । अप्रमयमप्रमेयम् ।

"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युत भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति "

 इति च श्रुतेः स्वप्रकाशचैतन्यरूप एवाऽऽत्माऽतस्तस्य सर्वभासकस्य स्वभानार्थं ने स्वभास्यापेक्षा, किंतु कल्पिताज्ञानतत्कार्यनिवृत्त्यर्थं कल्पितवृत्तिविशेषापेक्षा, कल्पितस्यैव कल्पितविरोधित्वात् , “यक्षानुरूपो बलिः' इति न्यायात् । तथा च सवैकल्पितनिवर्तकवृत्तिविशषोत्पत्त्यर्थं शास्त्रारम्भः, तस्य तत्त्वमस्यादिवाक्य मात्राधीनत्वात् । स्वतः सर्वदाभासमानत्वात्सर्वकल्पनाधिष्ठानत्वादृश्यमात्रभासकत्वाच्च न तस्य तुच्छत्वापत्तिः । तथा चैकमेवाद्वितीयं सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिशास्त्रमेव स्वप्रमेयानुरोधेन स्वस्यापि कल्पितत्वमापादयति अन्यथा स्वप्रामाण्यानुपपत्तेः । कल्पितस्य चाकल्पितपरिच्छेदकत्वं नास्तीति प्राक्प्रतिपादितम् । आत्मनः स्वप्रकाशत्वं च युक्तितोऽपि भगवत्पूज्यपादैरुपपादितम् । तथाहि-यत्र जिज्ञासोः संशयविपर्ययव्यतिरेकप्रमाणानामन्यतममपि नास्ति तत्र तद्विरोधि ज्ञानमिति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेः । आत्मनि चाहं वा नाहं वेति न कस्यचित्संशयः, नापि नाहमिति विपर्ययो व्यतिरेकः प्रमा वेति तत्स्वरूपप्रमा सर्वदाऽस्तीति वाच्यं तस्य सर्वसंशयविपर्ययधर्मित्वात् , “ धर्म्यंशे सर्वमभ्रान्तं प्रकारे तु विपर्ययः' इति न्यायात् । अत एवोक्तम्---

"प्रमाणमप्रमाणं च प्रमाभासस्तथैव च ।
कुर्वन्त्येव प्रमां यत्र तदसंभावना कुतः " इति ॥

 प्रमाभासः संशयः । स्वप्रकाशे सद्रूपे धर्मिणि प्रमाणाप्रमाणयोर्विशेषो नास्तीत्यर्थः । आत्मनो भासमानत्वे च घटज्ञानं मयि जातं न वेत्यादिसंशयः स्यात् । न चाऽऽन्तरपदार्थे विषयस्यैव संशयादिप्रतिबन्धकत्वस्वभावः कल्प्यः, बाह्यपदार्थे कृतेन विरोधिज्ञानेनैव संशयादिप्रतिबन्धसंभव आन्तरपदार्थे स्वभावभेदकल्पनाया अनौचित्यात् । अन्यथा सर्वविप्लवापत्तेः । आत्ममनोयोगमात्र चाऽऽत्मसाक्षात्कारे हेतुः । तस्य च ज्ञानमात्रे हेतुत्वाद्घटादिभानेऽप्यात्मभानं समूहालम्बनन्यायेन तार्किकाणां प्रवरेणापि दुर्निवारम् । न च चाक्षुषत्वमानसत्वादिसंकरः[१], लौकिकत्वालौकिकत्ववदंशभेदेनोपपत्तेः । संकरस्यादोपत्वाचाक्षुषत्वादेर्जातित्त्वानभ्युपगमाद्वा । व्यवसायमात्र एवाऽऽत्मभानसामत्र्या विद्यमानत्वादनुव्यवसायोऽप्यपास्तः । न च व्यवसायभानार्थं सजा- तस्य दीपवत्स्वव्यवहारे सनातीयानपेक्षत्वात् । न हि घटत[२]ज्ज्ञानयोरिव व्यवसायानुव्यवसाययोरपि विषयत्वविष-


  1. ख. °रः परस्पयिन्ताभावसमानाधिकरणयोरैकाधिकरण्यं सांकर्ये लौ।
  2. घ. इ. न. तद्भान' ।