पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
[अ० २क्ष्लो०१७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता---


भासते तद्वृत्तितादात्म्याध्यासात् । सुषुप्तावहंकाराभावेऽपि तद्वासनावासिताज्ञानभासकस्य चैतन्यस्य स्वतः स्फुरणात् । अन्यथैतावन्तं कालमहं किमपि नाज्ञासिषमिति सुषुप्तोत्थितस्य स्मरणं न स्यात् । न चोत्थितस्य ज्ञानाभावानुमितिरियमिति वाच्यं सुषुप्तिकालरूपपक्षाज्ञानालिङ्गासंभवाच्च । अस्मरणादेर्व्यभिचारित्वात्स्मरणाजनकनिर्विकल्पकाद्यभावासाधकत्वाच्च । ज्ञानसामग्यभावस्य चोन्योन्याश्रयग्रस्तत्वात् । तथा च श्रुतिः यद्वै तन्न पश्यति पश्यन्वै तद्दष्टव्यं न पश्यति न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् " इत्यादिः सुषुप्तौ स्वप्रकाशस्फुरणसद्भावं तन्नित्यतया दर्शयति । एवं घटादिविषयोऽपि तदज्ञातावस्थाभासके स्फुरणे कल्पितः, य एवं प्रागज्ञातः स एवेदानीं मया ज्ञात इति प्रत्यभिज्ञानात् । अज्ञातज्ञापकत्वं हि प्रामाण्यं सर्वतन्त्रसिद्धान्तः । यथर्थानुभवः प्रमेति वदद्रिस्तार्किकैरपि ज्ञातज्ञापिकायाः स्मृतेर्व्यावर्तैकमनुभवपदं प्रयुञ्जानैरेतदभ्युपगमात् । अज्ञातत्वं च घटादेर्न चक्षुरादिना परिच्छिद्यते तत्रासामर्थ्यातज्ज्ञानोत्तरकालमज्ञानस्यानुवृत्तिप्रसङ्गाच्च । नाप्यनुमानेन लिङ्गाभावात् । नहीदानीं ज्ञातत्वेन प्रागज्ञातत्वमनुमातुं शक्यं धारावाहिकानेकज्ञानविषये व्यभिचारात् । इदानीमेव ज्ञातत्वं तु प्रागज्ञातत्वे सतीदानीज्ञातत्वरूपं साध्याविशिष्टत्वादसिद्धम् । नचाज्ञातावस्थाज्ञानमन्तरेण ज्ञान प्रति घटादेर्हेतुता ग्रहीतुं शक्यते पूर्ववर्तित्वाग्रहात् । घटं न जानामीति सावलौकिकानुभवविरोधश्च । तस्मादज्ञातं स्फुरणं भासमानं स्वाध्यस्तं घटादिकं भासयति घटादीनामज्ञाते स्फुरणे कल्पितत्वसिद्विः, अन्यथा घटादेर्जडत्वेनाज्ञातत्वतद्भानयोरनुपपत्तेः । स्फुरणं चाज्ञातं स्वाध्यस्तेनैवाज्ञानेनेति स्वयमेव भगवान्वक्ष्यति* अज्ञानेनाऽऽवृतं ज्ञाने तेन मुह्यन्ति जन्तवः' इत्यत्र । एतेन विभुत्वं सिद्धम् । तथाच श्रुतिः “महद्भूतमनन्तमपारं विज्ञानघन एव" इति “सत्यं ज्ञानमनन्तम्' इति च ज्ञानस्य महत्त्वमनन्तत्वं च दर्शयति । महत्त्वं स्वाध्यतसर्वसंबन्धित्वमन-त्वं त्रिविधपरिच्छेदशून्यत्वमिति विवेकः । एतेन शून्यवादोऽपि प्रत्युक्तः, निरधिष्ठानभ्रमायोगान्नरवधिवाधायोगाच्च । तथाच श्रुतिः " पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः " इति सर्वबाधावधिं पुरुषं परिशिनष्टि । उक्तं च भाष्यकारैः- “सर्वं विनश्यद्वस्तुजातं पुरुषान्तं विनश्यति पुरुषो विनाशहेत्वभावान्न विनश्यति" इति । एतेन क्षणकवादोऽपि परास्तः, अबाधितप्रत्यभिज्ञानादन्यदन्यस्मरणाद्यनुपपत्तेश्च । तस्मादे कस्य सर्वानुस्यूतस्य स्वप्रकाशस्फुरणरूपस्य सतः सर्वप्रकारपरिच्छेदशून्यत्वादुपपन्नं नाभावो विद्यते सत इति ॥ १७ ॥

 श्री० टी०---तत्र सत्स्वभावमविनाशि वस्तु सामान्येनोक्तं विशेषतो दर्शयति--- अविनाशीति । येन सर्वमिदमागमापायधर्मकं देहादिकं ततं तत्साक्षित्वेन व्याप्तं तत्तु आत्मस्वरूपमविनाशि विनाशंशून्यं विद्धि जानीहि । तत्र हेतुमाह--- विनाशमिति ॥ १७ ॥