पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७०
[अ०१८ क्ष्लो० १५-१६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


वागाद्यधिष्ठात्र्यग्न्यादिभिः सह शरीराधिष्ठातृत्वेन पृथिवीपाठात् । कर्तुरहंकारस्याधिष्ठात्री देवता रुद्रः पुराणादिप्रसिद्धः। करणानां चाधिष्ठात्र्यो देवताः सुप्रसिद्धाः । श्रोत्रत्वक्चक्षुरसनघ्राणानां दिग्वातार्कप्रचेतोश्विनः । वाक्पाणिपादपायूपस्थानां वह्नीन्द्रोपेन्द्रमित्रप्रजापतयः । मनोबुद्ध्योश्चन्द्रबृहस्पती इति । पञ्चप्राणानां क्रियारूपाणां सद्योजातवामदेवाघोरतत्पुरुषेशानाः पुराणप्रसिद्धाः । भाष्ये दैवमादित्यादि चक्षुराद्यनुग्राहकमित्यधिष्ठानादिदेवतानामप्युपलक्षणम् ॥ १४ ॥

 श्री० टी०-तान्येवाऽऽह-अधिष्ठानमिति । अधिष्ठानं शरीरं, कर्ता चिज्जडग्रन्थिरहंकारः, पृथग्विधमनेकप्रकारं करणं चक्षुःश्रोत्रादि, विविधाश्च कार्यतः स्वरूपतश्च पृथग्भूताश्चेष्टाः प्राणापानादीनां व्यापाराः । अत्रैतेष्वेव दैवं च पञ्चमं कारणं चक्षुराद्यनुग्राहकमादित्यादि सर्वप्रेरकोऽन्तर्यामी वा ॥ १४ ॥

 म० टी०-स्वरूपमुक्त्वा तेषां पञ्चानां कर्महेतुत्वमाह तृतीयेन-

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः॥
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५॥

 शारीरं वाचिकं मानसिकं च विधिप्रतिषेधलक्षणं त्रिविधं कर्म धर्मशास्त्रेषु प्रसिद्धम् । अक्षपादेन चोक्तं-" प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः” इति । बुद्धिर्मनः । अतः प्राधान्याभिप्रायेणोच्यते शरीरेण वाचा मनसा वा यत्कर्म प्रारभते निर्वर्तयति नरो मनुष्याधिका[१] रित्वाच्छास्त्रस्य । कीदृशं कर्म न्याय्यं वा शास्त्रीयं धर्मं विपरीतं वाऽशास्त्रीयमधर्मं यच्च निमिषितचेष्टितादि जीवनहेतुरन्यद्वा विहितप्रतिषिद्धसमं तत्सर्वं पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरीतयोरेवान्तर्भूतम् । पञ्चैते यथोक्ता अधिष्ठानादद्यस्तस्य सर्वस्यैव कर्मणो हेतवः कारणानि ॥ १५ ॥

 श्री०टी०एतेषामेव सर्वकर्महेतुत्वमाह-शरीरेति । यथोक्तैः पञ्चभिः प्रार- भ्यमाणं कर्म त्रिष्वेवान्तर्भाव्य शरीरवाङ्मनोभिरित्युक्तं शारीरं वाचिकं मानसं च त्रिविधं कर्मेति प्रसिद्धेः । शरीरादिभिर्यद्यत्कर्म धर्म्यं वाऽधर्म्यं वा करोति नरस्तस्य सर्वस्य कर्मण एते पञ्च हेतवः ॥ १५ ॥

 म० टी०--इदानीमेतेषामेव कर्मकर्तृत्वादात्मनो न कर्तृत्वमित्यधिष्ठानादिनिरूपणफलमाह-

तत्रैवं सति कर्तारमात्मानं केवलं तु यः॥
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥


  1. क. ख. आ. व. छ. ज. अ. अ. कारत्वा।