पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[अ०१८श्लो०१] श्रीमद्भगवद्गीता। इच्छाद्वेषसुखदुःखचेतनाद्यभिव्यक्तेराश्रयोऽधिष्ठानं शरीरम् । तथा कर्ता यथाऽ- धिष्ठानमनात्मा भौतिकं मायाकल्पितं खामगृहरथादिवत्तथा कर्ताऽहं करोमीत्याद्य- मिमानवाज्ञानशक्तिप्रधानापश्चीकृतपञ्चमहाभूतकार्योऽहंकारोऽन्तःकरणं बुद्धिर्विज्ञान- मित्यादिपर्यायशब्दवाच्यस्तादात्म्याध्यासेनाऽऽत्मनि कर्तृत्वादिधर्माध्यारोपहेतुरनात्मा भौतिको मायाकल्पितश्चेति तथाशब्दार्थः । स्थूलशरीरस्य लोकायतिकैरात्मत्वेन परि- गृहीतस्याप्यन्यैः परीक्षकैरनात्मत्वेन निश्चयात्तदृष्टान्तेन ताकिंकादिभिरात्मत्वेन परि- गृहीतस्य कर्तुरप्यनात्मत्वनिश्चयः सुकर इत्यर्थः । करणं च श्रोत्रादि शब्दा- धुपलब्धिसाधनम् । चशब्दस्तथेत्यनुकर्षार्थः । पृथग्विधं नानाप्रकारं पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनो बुद्धिश्चेति द्वादशसंख्यम् । करणवर्गे मनो बुद्धिश्चेति वृत्तिविशेषौ, वृत्तिमांस्त्वहंकारः कतैव । चिदाभासस्तु सर्वत्रैवाविशिष्टः । विविधा नानाप्रकाराः पञ्चधा दशधा वा प्रसिद्धाः । चशब्दस्तथेत्यनुकर्षार्थः । पृथग- संकीर्णाः, चेष्टाः क्रियारूपाः क्रियाशक्तिप्रधानापञ्चीकृतपञ्चमहाभूतकार्याः क्रियाप्रा- धान्येन वायवीयत्वेन व्यपदिश्यमानाः प्राणापानव्यानोदानसमाना नागकूर्मककलदेव- दत्तधनंजयाख्याश्च तदन्तर्भूता एव । अत्र च सुषुप्तावन्तःकरणस्य कर्तुलयेऽपि प्राण- व्यापारदर्शनाद्भेदव्यपदेशाच्चान्तःकरणादत्यन्तभिन्न एवं प्राण इति केचित् । क्रियाश- क्तिज्ञानशक्तिमदेकमेव जीवत्वोपाधिभूतमपञ्चीकृतपञ्चमहाभूतकार्य क्रियाशक्तिप्राधान्येन प्राण इति ज्ञानशक्तिप्राधान्येन चान्तःकरणमिति व्यपदिश्यत इत्यभियुक्ताः । “स ईक्षा चक्रे कस्मिन्त्रहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्या- मीति स प्राणमसृजत इति श्रुतावुत्क्रान्त्याधुपाधित्वं प्राणस्योक्तम् । तथा " सधीः स्वप्नो भूत्वेमं लोकमतिकामति मृत्यो रूपाणि ध्यायतीव लेलायतीव" इत्या- दिश्रुतावुत्क्रान्त्याधुपाधित्वं बुद्धेरुक्तम् । स्वतन्त्रोपाधिभेदे च जीवभेदप्रसङ्गः । तस्मा- बुद्धिप्राणयोरेकत्वेनैवोत्क्रान्त्याधुपाधित्वं युक्तं भेदव्यपदेशश्च शक्तिभेदात् । सुषुप्तौ च ज्ञानशक्तिभागलयेऽपि क्रियाशक्तिभागदर्शनमेकत्वेऽपि न विरुद्धमनुभवसिद्धत्वात, दृष्टिसृष्टिनये सर्वलयेऽपि प्राणव्यापारवच्छरीरस्य सुषुप्तोऽयमित्येवंरूपेण परैः कल्पि- तत्वाच्च । तस्मादुभयथाऽपि व्यपदेशभेद उपपन्नः । दैवं चानुग्राहकदेवताजातम् । चशब्दस्तथेत्यनुकर्षणार्थः । अत्र कारणवर्गे पञ्चमं पञ्चसंख्यापूरणम् । एवशब्दस्त- थाशब्देन संबध्यमानोऽनात्मत्वभौतिकत्वकल्पितत्वाद्यवधारणार्थः पञ्चानामपि । तत्र शरीरस्य कर्तृकरणक्रियाधिष्ठानस्य देवता पृथिवी । “यत्रास्य पुरुषस्य मृतस्याग्निं वाग- प्येति वातं प्राणश्चक्षुरादित्य दिशः श्रोत्रं मनश्चन्द्रं पृथिवीं शरीरम् ” इति श्रुतौ १ क. ख. ग, घ, ङ, च, छ, ज. अ. इव । २ ग घ. ङ, च. छ. अ. 'त्यं मनश्चन्द्रं दिशः श्रोत्रं पृ।