पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८ क्ष्लो०१६]
४७१
श्रीमद्भगवद्गीता।


 तत्र कर्मणि प्रागुक्ते सर्वस्मिन्, एवं सति अधिष्ठानादिपञ्चहेतुके सति तैर्निर्वत्यमान आत्मानं सर्वजडप्रपञ्चस्य भासकं सत्तास्फूर्तिरूपं स्वप्रकाशपरमानन्दमबाध्यं केवलमसङ्गोदासीनमकर्तारमविक्रियमद्वितीयं तु एव परमार्थतः । अविद्यया त्वधिष्ठानादौ प्रतिबिम्बितमादित्यमिव तोये तद्भासकमनन्यत्वेन परिकल्प्य तोयचलनेनाऽऽदित्यश्चलतीतिवदधिष्ठानादिकर्मणोऽहमेव कर्तेति साक्षिणमपि सन्तं कर्तारं क्रियाश्रयं यः पश्यत्यविद्यया कल्पयति रज्जुमिव भुजंगं स एवं पश्यन्नपि न .पश्यत्यात्मानं तत्त्वेन स्वरूपाज्ञानकृतत्वादध्यासस्य । स भ्रान्त्या विपरीतमेव पश्यति न यथातत्त्वमित्यत्र को हेतुरत आह-अकृतबुद्धित्वात् , शास्त्राचार्योपदेशन्यायैरनुपजनितविवेकबुद्धित्वात् । नहि रज्जतत्त्वसाक्षात्काराभावे भुजंगभ्रमं कश्चन बाधते । एवं शास्त्राचार्योपदेशन्यायैः [१]परिनिष्ठितेऽहमस्मि सत्यं ज्ञानमनन्तमकर्त्भोक्तृ परमानन्दमनवस्थमद्वयं ब्रह्मेति साक्षात्कारेऽनुपजनिते कुतो मिथ्याज्ञानतत्कार्यबाधः । एतादृशं साक्षात्कारमेव गुरुमुपसृत्य वेदान्तवाक्यविचारेण कुतो न जनयतीत्यत आह-दुर्मतिः, दुष्टा विवेकप्रतिबन्धकपापेन मलिना मतिर्यस्य सः । अतोऽशुद्धबुद्धित्वान्नित्यानित्यवस्तुविवेकादिशून्यत्वेन तत्त्वज्ञानायोग्यत्वादकर्तारमपि कर्तारं केवलमप्यकेवलमात्मानमविद्यया कल्पयन्संसारी कर्माधिकारी देहभृदकृतबुद्धिः कर्मकर्तृषु तादात्म्याभिमानात्कर्मत्यागासमर्थः [२] सर्वदा जननमरणप्रबन्धेनानिष्टमिष्टं मिश्रं च कर्मफलमनुभवति । एतेन यस्तार्किको देहादिव्यतिरिक्तमात्मानमेव कर्तारं केवलं पश्यति सोऽप्यकृतबुद्धित्वेन व्याख्यातः । अन्यस्त्वाह-आत्मा केवलो न कर्ता किं त्वधिष्ठानादिभिः संहतः सन्परमार्थतः कर्तैव, कर्तारमात्मानं केवलं पश्यन्दुर्मतिरिति केवलशब्दप्रयोगादिति । तन्न, परमार्थतः सर्वक्रियाशून्यस्यासङ्गस्याऽऽत्मनोऽधिष्ठानादिभिः संहतत्वानुपपत्तेः, जलसूर्यकादिवत्त्वाविद्यकेन संहतत्वेन कर्तृत्वमपि तादृशमेव, अधिष्ठानादीनामप्याविद्यकत्वाच्च । केवलशब्दस्तु स्वभावसिद्धमात्मनोऽसङ्गाद्वितीयरूपत्वमनुवदति कर्तृत्वदर्शिनो दुर्मति[३]त्वहेतुत्वेनेत्यदोषः ॥ १६ ॥

 श्री०टी०-ततः किमत आह-तत्रेति । तत्र सर्वस्मिन्कर्मणि एते पञ्च हेतव इत्येवं सति केवलं निरुपाधिकमसङ्गमात्मानं तु यः कर्तारं पश्यति शास्त्राचार्योपद[४]शाभ्यामसंस्कृतबुद्धित्वाद्दुर्मतिरसौ सम्यग्न पश्यति ॥ १६ ॥

 म० टी०-तदेवं चतुभिः श्लोकैः-

" अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य"


  1. ग. छ. अ.ष्ठितोऽह' ।
  2. ख. छ. अ. सर्वथा ।
  3. ख. ग. ञ. 'तिहे ।
  4. क. ज. "देशत्यागेनासं ।