पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अ०१क्ष्लो०४
४५७
श्रीमद्भगवद्गीता।


पशुमालभेत" इत्यादिप्राकरणिको विधिस्तु हिंसायाः क्रतूपकारकत्वमाह । अतो भिन्नविपयत्वेन सामान्यविशेषन्यायागोचरत्वाबाध्यबाधकता नास्ति । द्रव्यसाध्येषु च सर्वेष्वपि कर्मसु हिंसादेः संभवात्सर्वमपि कर्म त्याज्यमेवेति । तदुक्तम्- "दृष्टवदानुश्रविकः स ह्यवि [१]शुद्धिक्षयातिशययुक्तः"[२] इति । अस्यार्थः--उपायो ज्योतिष्टोमादिः । सोऽपि दृष्टोपायवत् , गुरुपाठादनु श्रूयत इत्यनुश्रवो वेदस्तद्बोधितः । तत्राविशुद्धिर्हिसा तया क्षयो विनाशः । अग्निहोत्रज्योतिष्टोमादिजन्यस्वर्गेषु तारतम्यं च वर्तते । परोत्कर्षस्तु सर्वान्दुःखी करोति । अपरे तु मीमांसका यज्ञादिकं कर्म न त्याज्यमिति प्राहुः । अयं भावः-क्रत्वर्थाऽपि सतीयं हिंसा पुरुषेणैव[३] कर्तव्या । सा चान्योद्देशेनापि कृता पुरुषस्य प्रत्यवायहेतुरेव । [४]यथा हि विधिर्विधेयस्य तदुद्देशेनानुष्ठानं विधत्ते तादर्थ्यलक्षणत्वाच्छेषत्वस्य न त्वेवं निषेधो निषेधस्य तादर्थ्यमपेक्षते प्राप्तिमात्रापेक्षितत्वात् । अन्यथाऽज्ञानप्रमादादिकृते दोषाभावप्रसङ्गात् । तदेवं समानविषयत्वेन सामान्यशास्त्रस्य विशेषेण बाधान्नास्ति दोषवत्त्वमतो नित्यं यज्ञादिकर्म न त्याज्यमिति [५] । अनेन विधिनिषेधयोः समानबलता वार्यते सामान्यविशेषन्यायं संपादयितुम् ॥ ३ ॥

 म०टी०-एवं विप्रतिपत्तौ-

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ॥
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥४॥

 तत्र त्वया पृष्टे कर्माधिकारिकर्तृके संन्यासत्यागशब्दाभ्यां प्रतिपादिते त्यागे फलाभिसंधिपूर्वककर्मत्यागे मे मम वचनान्निश्चयं पूर्वाचार्यैः कृतं शृणु हे भरतसत्तम । किं तत्र दुर्जेयमस्तीत्यत आह-हे पुरुषव्याघ्र पुरुषश्रेष्ठ हि यस्मात्त्यागः कर्माधिकारिकर्तृकः फलाभिसंधिपूर्वककर्मत्यागस्त्रिविधस्त्रिप्रकारस्तामसादिभेदेन संप्रकीर्तितः । अथवा विशिष्टाभावरूपस्त्यागो विशेषणाभावाद्विशेष्यामावादुभयाभावाच्च त्रिविधः संप्रकीर्तितः। तथाहि-फलाभिसंधिपूर्वककर्मत्यागः सत्यषि कर्मणि फलाभिसंधित्यागादेकः, सत्यपि फलाभिसंधौ कर्मत्यागाद्द्वितीयः, फलाभिसंधेः कर्मणश्च त्यागात्तृतीयः । तत्र प्रथमः सात्त्विक आदेयः । द्वितीयस्तु हेयो द्विविधः, दुःखबुद्धया कृतो राजसः, विपर्यासेन कृतस्तामसः । एतावान्कर्माधिकारिकर्तृकस्त्यागोऽर्जुनस्य प्रश्नविषयः । तृतीयस्तु कर्मानधिकारिकर्तृको नैर्गुण्यरूपो नार्जुनप्रश्नविषयः । सोऽपि साधनफलभेदेन द्विविधः । तत्र सात्त्विकेन फलाभिसंधित्यागपूर्वककर्मानुष्ठानरूपेण त्यागेन शुद्धान्तःकरणस्योत्पन्नविविदिषस्याऽऽत्मज्ञानसाधनश्रवणाख्यवेदान्तवि[६][७]चाराय फलाभिसंधिरहितस्यान्तःकर-


  1. ख. ग. घ. इ. च. छ. ज. श शुद्धः क्ष ।
  2. ख. ग. घ. ङ. च. छ. ज. "क्तः । अपरे ।
  3. ख. व न क ।
  4. क. ख. ग. घ. झ. तथा ।
  5. क. ङ. छ. ज. ति ॥ ३ ॥
  6. इ. 'म । किमत्र ।
  7. क. चारस्य फ।