पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५६
[अ०१८क्ष्लो०३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तथाच श्रुतिः- "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" इति । ततः परं तु सर्वकर्मनिवृत्तिः स्वत एव भवति । तदुक्तं नैष्कर्म्यसिद्धौ-

" प्रत्यक्प्रवणतां बुद्धः कर्माण्युत्पाद्य शुद्धितः ।
कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव" इति ॥

उक्तं च भगवता-
 " यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
 आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते " इति ॥

वसिष्ठेन चोक्तम्-
 "न कर्माणि त्यजेद्योगी कर्मभिस्त्यज्यते ह्यसौ ।
 कर्मणो मूलभूतस्य संकल्पस्यैव नाशतः " इति ॥

 ज्ञाननिष्ठाविक्षेपकत्वमालक्ष्य त्यजेद्वा । तदुक्तम् । श्रीभगवता भागवते -

" तावत्कर्माणि कुर्वीत न निविद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥
ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वाऽनपेक्षकः ।
स लिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः " इत्यादि ।
अलमतिप्रसङ्गेन प्रकृतमनुसरामः ॥

२॥

 म०टी०-अधुना द्वितीयप्रश्नप्रतिवचनाय संन्यासत्यागशब्दार्थस्य त्रैविध्यं निरूपयितुं तत्र विप्रतिपत्तिमाह-

त्याज्यं दोषवदियेके कर्म प्राहुर्मनीषिणः ॥
यज्ञदानतपः कर्म न त्याज्यमिति चापरे ॥३॥

 सर्व कर्म बन्धहेतुत्वाद्दोषवहुष्टमतः कर्माधिकृतैरपि कर्म त्याज्यमेवेत्येके मनीषिणः प्राहुः । यद्वा दोषवदोष इव, यथा दोषो रागादिस्त्यज्यते तद्वत्कर्म त्याज्यमनुत्पन्नबोधैरनुत्पन्नविविदिषैः कर्माधिकारिमिरपीत्येकः पक्षः । अत्र द्वितीयः पक्षः कर्माधिकारिभिरन्तःकरणशुद्धिद्वारा विविदिषोत्पत्त्यर्थं यज्ञदानतपः कर्म न त्याज्यमिति चापरे मनीषिणः प्राहुः ॥ ३ ॥

 श्री० टी०-अविदुषः फलत्यागमात्रमेव त्यागशब्दार्थो न कर्मत्याग इत्येतदेव मतान्तरनिरासेन [१] दृढीकर्तुं मतभेदं दर्शयति-त्याज्यमिति । दोषवद्धिसादिदोषव[२]त्केवलं बन्धकमिति हेतोः सर्वमपि कर्म त्याज्यमित्येके सांख्याः प्राहुर्मनीषिण इत्यस्यायं भावः-"न हिंस्या[३]त्सर्वा भूतानि” इति निषेधः पुरुषस्यानर्थहेतुर्हिंसेत्याह । “अग्नीषोमीयं


  1. 'न स्वमतं ।
  2. क. ङ. च. छ. ज. "वत्वेन च। झ. 'वत्त्वेन केवलंब'।
  3. क. ख. ग. अ. ज. स. "त्सर्वभू। छ. सर्वाणि भू।