मानसे तपसि वक्ष्यति । शारीरं त्वार्जवं विहितप्रतिषिद्धयोरेकरूपप्रवृत्तिनिवृत्तिशालित्वं, ब्रह्मचर्यं निषिद्धमैथुननिवृत्तिः । अहिंसाऽशास्त्रीयप्राणिपीडनाभावः । चकारादस्तेयापरिग्रहावपि । शारीरं शरीरप्रधानः कर्त्रादिभिः साध्यं न तु केवलेन शरीरेण । पञ्चैते तस्य हेतव इति हि वक्ष्यति । इत्थं शारीरं तप उच्यते ॥ १४ ॥
श्री०टी०--तपसः सात्त्विकादिभेदं दर्शयितुं प्रथमं तावच्छरीरादिभेदेन तस्य त्रैविध्यमाह-देवद्विजेति त्रिभिः। प्राज्ञा गुरुव्यतिरिक्ता अन्येऽपि तत्त्वविदः । देवब्राह्मणादिपूजनं शौचादिकं शारीरं शरीरनिर्वर्त्य तप उच्यते ॥ १४ ॥
अनुदेगकरं वाक्यं सत्यं प्रियहितं च यत् ॥ |
म०टी०-अनुद्वेगकरं न कस्यचिद्दुःखकरं, सत्यं प्रमाणमूलमबाधितार्थं, प्रियं श्रोतुस्तत्कालश्रुतिसुखं हितं परिणामे सुखकरम् । चकारो विशेषणानां समुच्चयार्थः । अनुद्वेगकरत्वादिविशेषणचतुष्टयेन विशिष्टं न त्वेकेनापि विशेषणेन न्यूनं, यद्वाक्यं यथा शान्तो भव वत्स स्वाध्यायं योगं चानुतिष्ठ तथा ते श्रेयो भविष्यतीत्यादि तद्वाङ्मयं वाचिकं तपः शारीरवत् , स्वाध्यायाभ्यसनं च यथाविधि वेदाभ्यासश्च वाङ्मयं तप उच्यते । एवकारः प्राविशेषणसमुच्चयावधारणे व्याख्यातव्यः ॥ १५ ॥
श्री० टी०-वाचिकं तप आह-~-अनुद्वेगेति । उद्वेगं भयं न करोतीत्यनुद्वेगकरं वाक्यं सत्यं च श्रोतुः प्रियं च हितं च परिणामे सुखकरं स्वाध्यायाभ्यसनं वेदाभ्यासश्च वाङ्मयं वाचा निर्वत्य [१] तपः ॥ १५ ॥
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ॥ |
म० टी०-मनसः प्रसादः स्वच्छता विषयचिन्ताव्याकुलत्वराहित्यं, सौम्यत्वं सौमनस्यं सर्वलोकहितैषित्वं प्रतिषिद्धाचिन्तनं च, मौनं मुनिभाव एकाग्रतयाऽऽत्मचिन्तनं निदिध्यासनाख्यं, वाक्संयमहेतुर्मनःसंयमो मौनमिति भाष्यम् । आत्मविनिग्रह आत्मनो मनसो विशेषेण सर्ववृत्तिनिग्रहो निरोधसमाधिरसंप्रज्ञातः । भावस्य हृदयस्य शुद्धिः कामक्रोधलोभादिमलनिवृत्तिः, पुनरशुद्ध्युत्पादराहित्येन सम्यक्त्वेन विशिष्टा सा भावशुद्धिः । परैः सह व्यवहारकाले मायाराहित्यं सेति भाष्यम् । इत्येतदेवंप्रकारं तपो मानसमुच्यते ॥ १६ ॥
श्री०टी०-मानसं तप आह-मनःप्रसाद इति । मनसः प्रसादः स्वस्थता । १क.ख.घ.डच. छ.ज.झन. व्याख्यातः ।
- ↑ क. ख. घ. ङ. च. छ. ज. झ. ञ. व्याख्यातः