अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ॥ |
म. टी०-फलं काम्यं स्वर्गादि अभिसंधायोद्दिश्य न त्वन्तःकरणशुद्धिं, तुर्नित्यप्रयोगवैलक्षण्यसूचनार्थः । दम्भो लोके धार्मिकत्वख्यापनं तदर्थम् । अपि चैवेति विकल्पसमुच्चयाभ्यां त्रैविध्यसूचनार्थम् । पारलौकिकं फलमभिसंधायैवादम्भार्थत्वेऽपि पारलौकिकफलानभिसंधानेऽपि दम्भार्थमेवेति विकल्पेन द्वौ पक्षौ । पारलौकिकफलार्थमप्यैहलौकिकदम्भार्थमपीति समुच्चयेनैकः पक्षः । एवं दृष्टादृष्टफलाभिसंधिनाऽन्तःकरणशुद्धिमनुद्दिश्य यदिज्यते यथाशास्त्रं यो यज्ञोऽनुष्ठीयते तं यज्ञं राजसं विद्धि हानाय, हे भरतश्रेष्ठेति योग्यत्वसूचनम् ॥ १२ ॥
श्री०टी०- राजसं यज्ञमाह-अभिसंधायेति । फलमभिसंधायोद्दिश्य तु यदिज्यते यज्ञः क्रियते दम्भार्थं च महत्त्वख्यापनार्थ तं यज्ञं राजसं विद्धि ॥ १२ ॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ॥ |
म०टी०-यथाशास्त्रबोधितविपरीतमन्नदानहीनं स्वरतो वर्णतश्च मन्त्रहीनं यथोक्तदक्षिणाहीनमृत्विन्द्वेषादिना श्रद्धारहितं तामसं यज्ञं परिचक्षते शिष्टाः। विधिहीनत्वाद्येकैकविशेषणः पञ्चविधः सर्वविशेषणसमुच्चयेन चैकविध इति षट् । द्वित्रिचतुर्विशेषणसमुच्चयेन च बहवो भेदास्तामसयज्ञस्य ज्ञेयाः । राजसे यज्ञेऽन्तःकरणशुद्धयभावेऽपि फलोत्पादकमपूर्वमस्ति यथाशास्त्रमनुष्ठानात् । तामसे त्वयथाशास्त्रानुष्ठानान्न किमप्यपूर्वमस्तीत्य[१]तिशयः ॥ १३ ॥
श्री०टी०-तामसं यज्ञमाह-विधिहीनमिति। विधिहीनं शास्त्रोक्तविधि- शून्यम् । असृष्टान्नं ब्राह्मणादिभ्यो न सृष्टं न निष्पादितमन्नं यस्मिंस्तम् । मन्त्रैर्हीनं यथोक्तदक्षिणारहितं च श्रद्धाशून्यं यज्ञं तामसं परिचक्षते कथयन्ति शिष्टाः ॥ १३ ॥
म०टी०-क्रमप्राप्तस्य तपसः सात्त्विकादिभेदं कथयितुं शारीरवाचिकमानसभेदेन तस्य त्रैविध्यमाह त्रिभिः-
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ॥ |
देवा ब्रह्मविष्णुशिवसूर्याग्निदुर्गादयः, द्विजा [२]द्विजोत्तमा ब्राह्मणाः, गुरवः पितृमात्राचार्यादयः, प्राज्ञाः पण्डिता विदितवेदतदुपकरणार्थाः, तेषां पूजनं प्रणामशुश्रूषादि यथाशास्त्रं, शौच मृज्जलाभ्यां शरीरशोधनम् , आर्जवमकौटिल्यं भावसंशुद्धिशब्देन