पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४६
[अ०१७ क्ष्लो०१७-१९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


सौम्यत्वमक्रूरता । मौनं मुने वो मननमित्यर्थः । आत्मनो[१] मनसो विनिग्रहो विषयेभ्यः प्रत्याहारः । भावसंशुद्धिर्व्यवहारे मायाराहित्यम् । इत्येतन्मानसं तपः ॥ १६ ॥

 म०टी०-शारीरवाचिकमानसभेदेन त्रिविधस्योक्तस्य तपसः सात्त्विकादिभेदेन त्रैविध्यमिदानीं दर्शयति त्रिभिः-

श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः ॥
अफलाकाक्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७ ॥

 तत्पूर्वोक्तं त्रिविधं शारीरं वाचिकं मानसं च तपः श्रद्धयाऽऽस्तिक्यबुद्ध्या परया प्रकृष्टयाऽप्रामाण्यशङ्काकलङ्कशून्यया फलाभिसंधिशून्यैर्युक्तैः समाहितैः सिद्ध्यासिध्ध्योनिर्विकारैर्नरैरधिकारिभिस्तप्तमनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः ॥ १७ ॥

 श्री०टी०-तदेवं शरीरवाङ्मनोभिनिर्वर्त्यं त्रिविधं तपो दर्शितम् । तस्य त्रिविध. स्यापि तपसः सात्त्विकादिभेदेन त्रैविध्यमाह-श्रद्धयति त्रिभिः । त्रिविधमपि तपः परया श्रेष्ठया श्रद्धया फलाकाङ्क्षाशून्यैर्युक्तैरेकाग्रचित्तैनरैस्तप्तं तत्सात्त्विकं कथयन्ति ॥ १७ ॥

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ॥
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८ ॥

 म० टी०-सत्कारः साधुरयं तपस्वी ब्राह्मण इत्येवमविवेकिभिः क्रियमाणा स्तुतिः, मानः प्रत्युत्थानाभिवादनादिः,पूजा पादप्रक्षालनार्चनधनदानादिः, तदर्थं, दम्मेनैव च केवलं धर्मध्वजित्वेनैव च न त्वास्तिक्यबुद्धया यत्तपः क्रियते तद्राजसं प्रोक्तं शिष्टैः, इहास्मिन्नेव लोके फलदं न पारलौकिकं, चलमत्यल्पकालस्थायिफलम्, अध्रुवं फलजनकतानियमशून्यम् ॥ १८ ॥

 श्री०टी०-राजसं तप आह-सत्कारेति । सत्कारः साधुकारः साधुरयमिति तापस इत्यादिवाक्पूजा । मानः प्रत्युत्थानाभिवादनादिर्दैहिकी पूजा । पूजाऽर्थलाभादिः । एतदर्थं दम्भेन च यत्तपः क्रियतेऽत एव चलमनियतमधुवं च क्षणिकम् । यदेवभूतं तपस्तदिह राजसं प्रोक्तम् ॥ १८ ॥

मूढग्राहेणाऽऽत्मनो यत्पीडया क्रियते तपः ॥
परस्योत्सादनार्थं तत्तामसमुदाहृतम् ॥ १९ ॥

 म०टी०-मूढग्राहेणाविवेकातिशयकृतेन दुराग्रहेणाऽऽत्मनो देहेन्द्रियसंघातस्य पीडया यत्तपः क्रियते परस्योत्सादनाथ[२] वाऽन्यस्य विनाशार्थमभिचाररूपं वा तत्तामसमुदाहृतं शिष्टैः ॥ १९॥


  1. ख. ग. घ. इ. च. छ. ज. स. "नो वि' ।
  2. ख. ग. घ. ङ. च. छ. ज. झ. 'त्विकम् ॥१७॥