पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२८
[अ० १६क्ष्लो०१२-१४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


चयानीहन्त इत्युत्तरेणान्वयः । तथाच बार्हस्पत्यं सूत्रम्-"काम एवैकः पुरुषार्थः" "चैतन्यविशिष्टः कायः पुरुषः" इति च ॥ ११ ॥

 म०टी०-त ईदृशा अ(आ)सुरा-

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ॥
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् ॥ १२ ॥

 अशक्योपायार्थविषया अनवगतोपायार्थविषया वा प्रार्थना आशास्ता एव पाशा इव बन्धनहेतुत्वात्पाशास्तेषां शतैः समूहैर्बद्धा इव श्रेयसः प्रच्याव्येतस्तत आकृष्य नीयमानाः कामक्रोधौ परमयनमाश्रयो येषां ते कामक्रोधपरायणाः स्त्रीव्यतिकराभिलाषपरानिष्टाभिलाषाम्यां सदा परिगृहीता इति यावत् । ईहन्ते कर्तुं चेष्टन्ते कामभोगार्थं न तु धर्मार्थमन्यायेन परस्वहरणादिनाऽर्थसंचयान्धनराशीन् । संचयानिति बहुवचनेन धनप्राप्तावपि तत्तृष्णानुवृत्तेर्विषयप्राप्तिवर्धमानतृष्णत्वरूपो लोभो दर्शितः॥१२॥

 श्री०टी०-अत एव च-~-आशेति । आशा एव पाशास्तेषां शतानि तैर्बद्धा इतस्तत आकृष्यमाणाः कामक्रोधौ परमयनमाश्रयो येषां ते कामभोगार्थमन्यायेन चौर्यादिनाऽर्थानां संचयानाशीनीहन्त इच्छन्ति ॥ १२ ॥

 म०टी०-तेषामीदृशीं धनतृष्णानुवृत्तिं मनोराज्यकथनेन विवृणोति-

इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् ॥
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३॥

 इदं धनमद्येदानीमनेनोपायेन मया लब्धमिदं तदन्यन्मनोरथं मनस्तुष्टिकरं शीघ्रमेव प्राप्स्ये, इदं पुरैव संचितं मम गृहेऽस्ति, इदमाप बहुतरं भविष्यत्यागामिनि संवत्सरे पुनर्धनम् । एवं धनतृष्णाकुलाः पतन्ति नरकेऽशुचावित्यग्रिमेणान्वयः ॥ १३ ॥

 श्री०टी०-तेषां मनोराज्यं कथयन्नरकप्राप्तिमाह-इदमद्येति चतुर्भिः। प्राप्स्ये प्राप्स्यामि मनोरथं मनसः प्रियम् । शेषं स्पष्टम् । एषां च त्रयाणां श्लोकानामित्यज्ञानविमोहिताः सन्तो नरके पतन्तीति चतुर्थेनान्वयः ॥ १३॥

 म०टी०-एवं लोमं प्रपञ्चच तदभिप्रायकथनेनैव तेषां क्रोधं प्रपञ्चयति-

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ॥
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥

 असौ देवदत्तनामा मया हतः शत्रुरतिदुर्जयः । अत इदानीमनायासेन हनिष्ये च हनिष्यामि अपरान्सर्वानपि शत्रून्, न कोऽपि मत्सकाशाज्जीविष्यतीत्यपेरर्थः ।


श्रीधरटीकामूलपुस्तकयोध. झ. संज्ञितयोरिममिति पाठः।