पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १६ क्ष्लो० १०-११]
४२७
श्रीमद्भगवद्गीता।


काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ॥
मोहाद्गृहीत्वाऽसनाहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १० ॥

 कामं तत्तदृष्टविषयाभिलाषं दुष्पूरं पूरयितुमशक्यं दम्भेनाधार्मिकत्वेऽपि धार्मिकत्वख्यापनेन मानेनापूज्यत्वेऽपि पूज्यत्वख्यापनेन मदेनोत्कर्षरहितत्वेऽप्युत्कर्षविशेषाध्यारोपेण महदवधीरणाहेतुनाऽन्विता असद्ग्राहानशुभनिश्चयाननेन मन्त्रेणेमां देवतामाराध्य कामिनीनामाकर्षणं करिष्यामः, अनेन मन्त्रेणेमां देवतामाराध्य महानिधीन्साधयिष्याम इत्यादिदुराग्रहरूपान्मोहादविवेकाहीत्वा न तु शास्त्रात् , अशुचिव्रता अशुचीनि श्मशानादिदेशोच्छिष्टत्वाद्यवस्थाद्यशौचसापेक्षाणि वामागमाद्युपदिष्टानि व्रतानि येषां तेऽशुचिव्रताः प्रवर्तन्ते यत्र कुत्राप्यवैदिके दृष्टफले क्षुद्रदेवताराधनादाविति शेषः । एतादृशाः पतन्ति नरकेऽशुचावित्यग्रिमेणान्वयः ॥ १० ॥

 श्री०टी०-अपि च --काममिति । दुष्पूरं पूरयितुमशक्यं काममाश्रित्य दम्भादिभिर्युक्ताः सन्तः क्षुद्रदेवताराधनादौ प्रवर्तन्ते । कथम्, असहाहान्गृहीत्वाऽनेन मन्त्रेणैतां देवतामाराध्य महानिधीन्साधयिष्याम इत्यादिदुराग्रहान्मोहमात्रेण स्वीकृत्य प्रवर्तन्ते । अशुचिव्रता अशुचीनि मद्यमांसादिविषयाणि व्रतानि येषां ते ॥ १० ॥

 म. टी-तानेव पुनर्विशिनष्टि-

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ॥
कामोपभोगपरमा एतावदितिनिश्चिताः ॥ ११ ॥

 चिन्तामात्मीययोगक्षेमोपायालोचनात्मिकामपरिमेयामपरिमेयविषयत्वात्परिमातुमशक्यां प्रलयो मरणमेवान्तो यस्यास्तां प्रलयान्तां यावज्जीवमनुवर्तमानामिति यावत् । न केवलमशुचित्रताः प्रवर्तन्ते किं त्वेतादृशीं चिन्तां चोपाश्रिता इति समुच्चयार्थश्चकारः । सदाऽनन्तचिन्तापरा अपि न कदाचित्पारलौकिकचिन्तायुताः किं तु कामोपभोगपरमाः काम्यन्त इति कामा दृष्टाः शब्दादयो विषयास्तदुपभोग एव परमः पुरुषार्थो न धर्मादिर्येषां ते तथा । पारलौकिकमुत्तमं सुखं कुतो न कामयन्ते तत्राऽऽह--एतावदृष्टमेव सुखं नान्यदेतच्छरीरवियोगे भोग्यं सुखमस्ति एतत्कायातिरिक्तस्य भोक्तुरभावादिति निश्चिता एवंनिश्चयवन्तः । तथा च बार्हस्पत्यं सूत्रं " चैतन्यविशिष्टः कायः पुरुषः काम एवैकः पुरुषार्थः, " इति च ॥ ११ ॥

 श्री०टी०-किंच-चिन्तामिति । प्रलयो मरणमेवान्तो यस्यास्तामपरिमेयां परिमातुमशक्यां चिन्तामाश्रिताः । नित्यं चिन्तापरा[१] इत्यर्थः । कामोपभोग एव परमो येषां ते । एतावदिति कामोपभोग एव परमः पुरुषार्थो नान्यदस्तीति कृतनिश्चया अर्थसं.


  1. क. ख. छ. 'रायणा है।