पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१६क्ष्लो०१५-१६]
४२९
श्रीमद्भगवद्गीता।

चकारान्न केवलं हनिष्यामि तान्किं तु तेषां दारधनादिकमपि ग्रहीष्यामीत्यभिप्रायः । कुतस्तवैतादृशं सामर्थ्यं त्वत्तुल्यानां त्वदधिकानां वा शत्रूणां संभवादित्यत आह- ईश्वरोऽहं न केवलं मानुषो येन मत्तुल्योऽधिको वा कश्चित्स्यात् । किमेते करिष्यन्ति वराकाः सर्वथा नास्ति मत्तुल्यः कश्चिदित्यनेनाभिप्रायणेश्वरत्वं विवृणोति-यस्मादहं भोगी सर्वैैभोगोपकरणैरुपेतः सिद्धोऽहं पुत्रभृत्यादिभिः सहायैः संपन्नः स्वतोऽपि बलवानत्योजस्वी मुखी सर्वथा नीरोगः ॥ १४ ॥

 श्री०टी०-किं च-असाविति । सिद्धः कृतकृत्यः । स्पष्टमन्यत् ॥ १४ ॥

 म०टी०-ननु धनेन कुलेन वा कश्चित्त्वत्तुल्यः स्यादित्यत आह-

आढयोऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ॥
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१५॥

 आढ्यो धनी, अभिजनवान्कुलीनोऽप्यहमेवास्मि । अतः कोऽन्योऽस्ति सदृशो मया न कोऽपीत्यर्थः । यागेन दानेन वा कश्चित्तुल्यः स्यादित्यत आह-यक्ष्ये यागेनाप्यन्यानभिभविष्यामि, दास्यामि धनं स्तावकेभ्यो नटादिभ्यश्च । ततश्च मोदिष्ये मोदं हर्षं लप्स्ये नर्तक्यादिभिः सहेत्येवमज्ञानेनाविवेकेन विमोहिता विविधं मोहं भ्रमपरम्परां प्रापिताः ॥ १५ ॥

 श्री०टी०-किं च-आढ्य इति । आढ्यो धनादिसंपन्नः । अभिजनवान्कुलीनः । यक्ष्ये यागाधनुष्ठानेनापि दीक्षितान्तरेभ्यः सकाशान्महतीं प्रतिष्ठां प्राप्स्यामि । दास्यामि स्तावकेभ्यः । मोदिष्ये हर्षं प्राप्स्यामीत्येवमज्ञानेन विमोहिता मिथ्यामिनिवेशं प्रापिताः ॥ १५ ॥

अनेकचित्तविभ्रान्ता मोहजालसमावृताः॥
प्रसक्ताः कामभोगेषु पतन्ति+ नरकेशुचौ ॥ १६ ॥

 म० टी०-उक्तप्रकारैरनेकैश्चित्तैस्तत्तद्दष्ट[१]संकल्पैविविधं भ्रान्ताः, यतो मोहजालसमावृता मोहो हिताहितवस्तुविवेकासामर्थ्यं तदेव जालमावरणात्मकत्वेन बन्धहेतुत्वात्, तेन सम्यगावृताः सर्वतो वेष्टिता मत्स्या इव सूत्रमयेन जालेन परवशीकृता इत्यर्थः । अत एव स्वानिष्टसाधनेष्वपि कामभोगेषु प्रसक्ताः सर्वथा तदेकपराः प्रतिक्षणमुपचीयमानकल्मषाः पतन्ति नरके वैतरण्यादावशुचौ विष्मूत्रश्लेष्मादिपूर्णे ॥ १६ ॥

श्री० टी०–एवंभूता यत्प्राप्नुवन्ति तच्छृणु-~अनेकेति । अनेकेषु मनोरथेषु


+ श्रीधरटीकामूले झ. संज्ञिते निरय इति पाठः ।


  1. ग. अ. त्तददृष्ट । ङ. त्तद्दष्ट ।