पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१६ क्ष्लो०२]
४२२
श्रीमद्भगवद्गीता।


श्री०टी०-आसुरीं संपदं त्यक्त्वा दैवीमेवाऽऽश्रिता नराः ।
  मुच्यन्त इति निर्णेतुं तद्विवेकोऽथ षोडशे ॥

 पूर्वाध्यायान्त एतबुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारतेत्युक्तम् । तत्र क एततत्त्वं बुध्यते को वा न बुध्यत इत्यपेक्षायां तत्त्वज्ञानेऽधिकारिणोऽनधिकारिणश्च विवेकार्थं षोडशाध्यायारम्भः । निरूपिते हि कार्यार्थेऽधिकारिजिज्ञासा भवति । तदुक्तं भट्टै:-

" भारो यो येन वोढव्यः स प्रागा[१]
तोलितो यदा।
तदा कस्तस्य वोढेति शक्यं कर्तुं निरूपणम् " इति ॥

 तत्राधिकारिविशेषणभूतां दैवी संपदमाह-अभयमिति त्रिभिः । अभयं मयाभावः । सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता । ज्ञानयोग आत्मज्ञानोपाये व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यस्यान्नादेर्यथोचितं संविमागः । दमो बाह्येन्द्रियसंयमः । यज्ञो यथाधिकारं दर्शपूर्णमासादिः । स्वाध्यायो ब्रह्मयज्ञादिर्जपयज्ञो वा । तप उत्तराध्याये वक्ष्यमाणं शारीरादि । आर्जवमवक्रता ॥ १ ॥

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ॥
दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥२॥

 म० टी०-प्राणिवृत्तिच्छेदो हिंसा तदहेतुत्वमहिंसा । सत्यमनर्थाननुवन्धि यथाभूतार्थवचनम् । परैराक्रोशे ताडने वा कृते सति प्राप्तो यः क्रोधस्तस्य तत्कालमुपशमनमक्रोधः । दानस्य प्रागुक्तेस्त्यागः संन्यासः। दमस्य प्रागुक्तेः शान्तिरन्तःकरणस्योपशमः । परस्मै परोक्षे परदोषप्रकाशनं पैशुनं तदभावोऽपैशुनम् । दया भूतेषु दुःखितेष्वनुकम्पा । अलोलुप्त्वमलोलुपत्वमिन्द्रियाणां विषयसंनिधानेऽप्यविक्रियत्वम् । मार्दवमक्रूरत्वं वृथापूर्वपक्षादिकारिष्वपि शिष्यादिष्वप्रियभाषणादिन्यतिरेकेण बोधयितृत्वम् । ह्रीरकार्यप्रवृत्त्यारम्भे तत्प्रतिबन्धिका लोकलज्जा। अचापलं प्रयोजनं विनाऽपि वाक्पाण्यादिव्यापारयितृत्वं चापलं तदभावः । आर्जवादयोऽचापलान्ता ब्राह्मणस्यासाधारणा धर्माः ॥ २ ॥

 श्री०टी०-किं च-अहिंसेति । अहिंसा परपीडावर्जनम् । सत्यं यथादृष्टार्थभाषणम् । अक्रोधस्ताडितस्यापि चित्ते क्षोभानुत्पत्तिः । त्याग औदार्यम् । शान्तिाश्चत्तोपरतिः । पैशुनं परोक्षे परदोषप्रकाशनं तद्वर्जनमपैशुनम् । भूर्तेषु दीनेषु दया । अलोलुप्त्वमलोलुपत्वम् । अवर्णलोप आर्षः । मार्दवं मृदुत्वमक्रूरता । हीरकार्यप्रवृत्तौ लोकलज्जा। अचापलं व्यर्थक्रियाराहित्यम् ॥२॥


  1. क. गान्दोलि।