पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
[अ०१६ क्ष्लो०]
मधुसूदनसरस्ववीश्रीधरस्वामिकृतटीकाभ्यां समेता-


श्रीभगवानुवाच-
 अभयं सत्त्वसंशुद्धिज्ञानयोगव्यवस्थितिः ॥
 दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १॥

 शास्त्रोपदिष्टेऽर्थे संदेहं विनाऽनुष्ठाननिष्ठत्वमेकाकी सर्वपरिग्रहशून्यः कथं जीविष्यामीतिभयराहित्यं वाऽभयं, सत्त्वस्यान्तःकरणस्य शुद्धिनिर्मलता तस्याः सम्यक्ता भगवत्तत्त्वस्फूर्तियोग्यता सत्त्वसंशुद्धिः परवञ्चनमायानृतादिपरिवर्जनं वा । परस्य व्याजेन वशीकरणं परवञ्चनं, हृदयेऽन्यथा कृत्वा बहिरन्यथा व्यवहरणं माया, अयथादृष्टकथनमनृतमित्यादि । ज्ञानं शास्त्रादात्मतत्त्वस्यावगमः, चित्तैकाग्रतया तस्य स्वानुभवारूढत्वं योगः, तयोर्व्यवस्थितिः सर्वदा तन्निष्ठता ज्ञानयोगव्यवस्थितिः। यदा तु अभयं सर्वभूताभयदानसंकल्पपालनम् । एतच्चान्येषामपि परमहंसधर्माणामुपलक्षणम् । सत्त्वसंशुद्धिः श्रवणादिपरिपाकेणान्तःकरणस्यासंभावनाविपरीतभावनादिमलराहित्यम् । ज्ञानमात्मसाक्षात्कारः । योगो मनोनाशवासनाक्षयानुकूलः पुरुषप्रयत्नस्ताभ्यां विशिष्टा संसारिविलक्षणाऽवस्थितिर्जीवन्मुक्तिनियोगव्यवस्थितिरित्येवं व्याख्यायते तदा फलभूतैव देवी संपदियं द्रष्टव्या । भगवद्भक्तिं विनाऽन्तःकरणसंशुद्धरयोगात्तया साऽपि कथिता ।

" महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् "

 इति नवमे दैव्यां संपदि भगवद्भक्तरुक्तत्वाच्च । भगवद्भक्तेरतिश्रेष्ठत्वादभयादिभिः सह पाठो न कृत इति द्रष्टव्यम् । महाभाग्यानां परमहंसानां फलभूतां दैवीं संपदमुक्त्वा ततो न्यूनानां गृहस्थादीनां साधनभूतामाह-दानं स्वस्वत्वास्पदानामन्नादीनां यथाशक्ति शास्त्रोक्तः संविभागः । दमो बाह्येन्द्रियसंयम ऋतुकालाद्यतिरिक्तकाले मैथुनाद्यभावः । चकारोऽनुक्तानां निवृत्तिलक्षणधर्माणां समुच्चयार्थः । यज्ञश्च श्रौतोऽग्निहोत्रदर्शपूर्णमासादिः, स्मार्तो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञ इति चतुर्विधः । ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः । चकारोऽनुक्तानां प्रवृत्तिलक्षणधर्माणां समुच्चयार्थः । एतत्रयं गृहस्थस्य । स्वाध्यायो ब्रह्मयज्ञोऽदृष्टार्थमृग्वेदाद्यध्ययनरूपः । यज्ञ- शब्देन पञ्चविधमहायज्ञोक्तिसंभवेऽप्यसाधारण्येन ब्रह्मचारिधर्मत्वकथनार्थ पृथगुक्तिः । तपस्त्रिविधं शारीरादि सप्तदशे वक्ष्यमाणं वानप्रस्थस्यासाधारणो धर्मः । एवं चतुर्णामाश्रमाणामसाधारणान्धर्मानुक्त्वा चतुर्णा वर्णा[१]नामसाधारणधर्मानाह-आर्जवमवक्रत्वं श्रद्दधानेषु श्रोतृषु स्वज्ञातार्थासंगोपनम् ॥ १ ॥


  1. ख. ग. घ. ङ. च. छ. ज. झ. ञ. नामाह।