पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० २क्ष्लो०१३ ]
३७
श्रीमद्भगवद्गीता ।


 तुशब्दो देहादिभ्यो व्यतिरेकं सूचयति । यथाऽहमितः पूर्वं जातु कदाचिदपि नाऽऽसमिति नैवापि तु आसमेव तथा त्वमप्यासीः । इमे जनाधिपाश्चाऽऽसन्नेव । एतेन प्रागभावाप्रतियोगित्वं दर्शितम् । तथा सर्व वयमहं त्वमिमे जनाधिपाश्चातः परं न भविष्याम इति न, अपि तु भविष्याम एवेति ध्वंसाप्रतियोगित्वमुक्तम् । अतः कालत्रयेऽपि सत्तायोगित्वादात्मनो नित्यत्वेनानित्याद्देहाद्वैलक्षण्यं सिद्धमित्यर्थः ॥१२॥

 श्री० टी०--अशोच्यत्वे हेतुमाह-न त्वेवेति । यथाऽहं परमेश्वरो जातु कदाचिल्लीलाविग्रहस्याऽऽविभवे तिरोभावेऽपि नाऽऽसमिति नैव । अपि तु आसमेवानादित्वात् । न च त्वं नाऽऽसीर्नाभूः । अपि त्वासीरेव । इमे च जनाधिपा नृपा नाऽऽसन्निति न । अपि तु आसन्नेव मदंशत्वात् । तथाऽतः पर[१]मित उपर्यपि न भविष्यामो न स्थास्याम इति च नैव । अपि तु स्थास्यामः । एवं जन्ममरणशून्यत्वादशोच्या इत्यर्थः ॥ १२ ॥

 म० टी०–ननु देहमात्रं चैतन्यविशिष्टमात्मेति लोकायतिकाः । तथा च स्थूलोऽहं गौरोऽहं गच्छामि चेत्यादिप्रत्यक्षप्रतीतीनां प्रामाण्यमन[२]पोहितं भविष्यति । अतः कथं देहादात्मनो व्यतिरेको व्यतिरेकेऽपि कथं वा जन्मविनाशशून्यत्वं जातो देवदत्तो मृतो देवदत्त इति प्रतीतेर्दैहजन्मनाशाभ्यां सहाऽऽत्मनोऽपि जन्माविनाशोपपत्तेरित्याशङ्कयाऽऽह-

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ॥
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥

 देहाः सर्वे भूतभविष्यद्वर्तमाना जगन्मण्डलवर्तनोऽस्य सन्तीति देहीं । एकस्यैव विभुत्वेन सर्वदेहयोगित्वात्सर्वत्र चेष्टोपपत्तेर्न प्रतिदेहमात्मभेदे प्रमाणमस्तीति सूचयितुमेकवचनम् । सर्वे वयमिति बहुवचनं तु पूर्वत्र देहभेदानुवृत्त्या न त्वात्ममेदाभिप्रायेणेति न दोषः । तस्य देहिन एकस्यैव सतोऽस्मिन्वर्तमाने देहे यथा कौमारं यौवनं जरेत्यवस्थात्रयं परस्परविरुद्धं भवति न तु तद्भेदेनाऽऽत्मभेदः, य एवाह बाल्ये पितरावन्बभूवं स एवाहं वार्धके प्रनसुननुभवामीति दृढतरप्रत्यभिज्ञानादन्यनिष्ठसंस्कारस्य चान्यत्रानुसंधानाजनकत्वात् , तथा तेनैव प्रकारेणाविकृतस्यैव सत आत्मनो देहान्तरप्राप्तिरेतस्माद्देहादत्यन्तविलक्षणदेहप्राप्तिः स्वप्ने योगैश्वर्ये च तद्देहभेदानुसंधानेऽपि स एवाहमिति प्रत्यभिज्ञानात् । तथा च यदि देह एवाऽऽत्मा भवेत्तदा कौमारादिभेदेन देहे भिद्यमाने प्रतिसंधानं न स्यात्। अथ तु कौमाराद्यवस्थानामत्यन्तवैलक्षण्येऽप्यवस्थावतो देहस्य यावत्प्रत्यभिज्ञं वस्तुस्थितिरिति न्यायेनैक्यं ब्रूयात्त-


  1. ख. "मितो देहपातादुप” ।
  2. ग. घ. ङ. छ. ज. झ. “पोदितं ।