पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[अ० २क्ष्लो०१२ !]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


थर्मत्वभ्रान्तिधमें चाधर्मत्वभ्रान्तिरसाधारणी तवातिपण्डितस्य नोचितेति भावः । प्रज्ञावतां पण्डितानां वादान्भाषसे परं न तु बुध्यस इति वा । भापणापेक्षयाऽनुशोचनस्य प्राक्कालत्वादतीतत्वनिर्देशः । भाषणस्य तु तदुत्तरकालत्वेनाव्यवहितत्वार्द्वतमानत्वानिर्देशः । छान्दसेन तिङ्व्यत्ययेनानुशोचसीति वर्तमानत्वं वा व्याख्येयम् । ननु बन्धुविच्छेदे शोको नानुचितो वसिष्ठादिभिर्महाभागैरपि कृतत्वादित्याशङ्कयाऽऽहगतासूनितिः । ये पण्डिता विचारजन्यात्मतत्त्वज्ञानवन्तस्ते गतप्राणानगतप्राणांश्च वन्धुत्वेन कल्पितान्देहान्नानुशोचन्ति । एते मृताः सर्वोपकरणपरित्यागेन गताः किं कुर्वन्ति क्व तिष्ठन्ति एते च जीवन्तो बन्धुविच्छेदेन कथं जीविष्यन्तीति न व्यामुह्यन्ति, समाधिसमये तत्प्रतिभासाभावात् , व्युत्थानसमये तत्प्रतिभासेऽपि मृषात्वेन निश्चयात् । न हि रज्जुतत्वसाक्षात्कारेण सर्पभ्रमेऽपनीते तन्निमित्तभयकम्पादि संभवति, न वा पित्तोपहतेन्द्रियस्य कदाचिद्गृडे तिक्तताप्रतिभासेऽपि तिक्तार्थितया तत्र प्रवृत्तिः संभवतिं मधुरत्वनिश्चयस्य बलवत्वात् । एवमात्मस्वरूपाज्ञाननिबन्धनत्वाच्छोच्यभ्रमस्य तत्स्वरूपज्ञानेन तदज्ञानेऽपनीते तत्कार्यंभूतः शोच्यभ्रमः कथमवतिष्ठेतेति भावः । वसिष्ठादीनां तु प्रारब्धकर्मप्राबल्यात्तथा तथाऽनुकरणं न शिष्टाचारतयाऽन्येषामनुष्ठेयतामापादयति, शिष्टैर्धर्मबुद्ध्याऽनुष्ठीयमानस्यालौकिकव्यवहारस्यैव तदाचारत्वात्, अन्यथा निष्ठीवनादेरप्यनुष्ठानप्रसङ्गादिति द्रष्टव्यम् । यस्मादेवं तस्मात्त्वमपि पण्डितो भूत्वा शाकं मा कार्षीरित्यभिप्रायः ॥ ११ ॥

 श्री० टी०-देहात्मनोरविवेकादस्यैवं शोको भवतीति तद्विवेकप्रदर्शनार्थम्--- अशोच्यानिति[१] शोकस्याविषयभूतानेव बन्धुंस्त्वमन्वशोचोऽनुशोचितवानसि दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितमित्यादिना । तत्र कुतस्त्वा कश्मलमिदं विषमे समुपस्थितमित्यादिना मया बोधितोऽपि पुनश्च प्रज्ञावतां पण्डितानां वादाशब्दान्कथं भीष्ममहं संख्य इत्यादीन्केवलं भाषसे न तु पण्डितोऽसि यतो गतासून्गतप्राणान्बन्धूनगतासुंश्च जीवतोऽपि बन्धुहीना एते कथं जीविष्यन्तीति नानुशोचन्ति ॥ ११ ॥

 म० टी०---न त्वेवेत्याद्येकोनविंशतिश्लोकैरशोच्यानन्वशोचस्त्वमित्येतस्य विवरणं क्रियते । स्वधर्ममपि चावेक्ष्येत्याद्यष्टभिः लौकैः प्रज्ञावादांश्च भापस इत्यस्य मोहद्व- यस्य पृथक्प्रयत्ननिराकर्तव्यत्वात् । तत्र स्थूलशरीरादात्मानं विवेक्त्तुं नित्यत्वं साधयति--

न त्वेवाहं जातु नाऽऽसं न त्वं नेमे जनाधिपाः ॥
ने चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥


  1. ख. ग. °ति । परमार्थस्वरूपेण शो’ ।