पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
[ अ०२ क्ष्लो० १३ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


दाऽपि स्वप्नयोगैश्वर्ययोर्देहधर्मभेदे प्रतिसंधानं न स्यादित्युभयोदाहरणम् । अतो मरुमरीचिकादावुदकादिबुद्धेरिव स्थूलोऽहमित्यादिबुद्धेरपि भ्रमत्वमवश्यमभ्युपेयं बाधस्योभयत्रापि तुल्यत्वात् । एतच्च न जायत इत्यादौ प्रपञ्चयिष्यते । एतेन देहाद्यतिरिक्तो देहेन सहोत्पद्यते विनश्यति चेति पक्षोऽपि प्रत्युक्तः । तत्रावस्थाभेदे प्रत्यभिज्ञोपपत्तावपि धर्मिणो देहस्य भेदे प्रत्यभिज्ञानुपपत्तेः । अथवा यथा कौमाराद्यवस्थाप्राप्तिरविकृतस्याऽऽत्मन एकस्यैव तथा देहान्तरप्राप्तिरेतस्माद्देहादुत्क्रान्तौ । तत्र स एवाहमितिप्रत्यभिज्ञानाभावेऽपि जातमात्रस्य हर्षशोकमयादिसंप्रतिपत्तेः पूर्वसंस्कारजन्याया दर्शनात् । अन्यथा स्त [१]न्यपानादौ प्रवृत्तिर्न स्यात्तस्या इष्टसाधनतादिज्ञानजन्यत्वस्यादृष्टमात्रजन्यत्वस्य चाभ्युपगमात् । तथा च पूर्वापरदेहयोरात्मैक्यसिद्धिः, अन्यथा कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरः । (+कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः कृतनाशः । अकृतयोः पुण्यपापयोरकस्मात्फलदातृत्वमकृताभ्यागमः ।) अथवा देहिन एकस्यैव तव यथा क्रमेण देहावस्थोत्पत्तिविनाशयोर्न भेदो नित्यत्वात्तथा युगपत्सर्वदेहान्तरप्राप्तिरपि तवैकस्यैव विभुत्वात् , मध्यमपरिमाणत्वे सावयवत्वेन नित्यत्वायोगात्, अणुत्वे सकलदेहव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्, विभुत्वे निश्चिते सर्वत्र दृष्टकार्यत्वात्सर्वशरीरेष्वेक एवाऽऽत्मा त्वमिति निश्चितोऽर्थः । तत्रैवं सति वध्यघातकभेदकल्पना त्वमधीरत्वान्मुह्यसि धीरस्तु विद्वान्न मुह्यति अहमेषां हन्तैते मम वध्या इति भेददर्शनाभावात् । तथा च विवादगोचरापन्नाः सर्वे देहा एकभोक्तृका देहत्वात्त्वद्देहवदिति । श्रुतिरपि--" एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा " इत्यादि । एतेन यदाहुदेहमात्रमात्मेति चार्वाकाः, इन्द्रियाणि मनः प्राणश्चेति तदेकदेशिनः, क्षणिकं विज्ञानमिति सौगताः, देहातिरिक्तः स्थिरो देहपरिमाण इति दिगम्बराः, मध्यमपरिमाणस्य नित्यत्वानुपपत्तेनित्योऽणुरित्येकदेशिनः, तत्सर्वमपाकृतं भवति नित्यत्वविभुत्वस्थापनात् ॥ १३ ॥

 श्री० टी०-नन्वीश्वरस्य तव जन्मादिशून्यत्वं सत्यमेव जीवानां तु जन्ममरणे प्रसिद्ध तत्राऽऽह -देहिन इति । देहिनो देहाभिमानिनो जीवस्य यथाऽस्मिन्स्थूलदेहे कौमाराद्यवस्था देहनिबन्धना एव न तु स्वतः पूर्वावस्थानाशेऽवस्थान्तरोत्पत्तावापि स एवाहमिति प्रत्यभिज्ञानात्तथैवैतद्देहनाशे देहान्तरप्राप्तिरपि लिङ्गदेहनिबन्धना । न तु तावदात्मनो नाशो जातमात्रस्य पूर्वसंस्कारेण[२] स्तन्यपानादौ प्रवृत्तिदर्शनात् । अतो धीरे धीमांस्तत्र तयोर्देहनाशोत्पत्त्योर्न मुह्यति आत्मैव[३] मृतो जातश्चेति न मन्यते ॥ १३ ॥


+ धनुश्चिान्तर्गतं क, पुस्तक एव ।


  1. क. ख. ग. घ. चे. ज. झ. स्तनपा ।
  2. ख. ग. घ. ङ. छ. छ. ज. झ. अ. स्तन्यादौ ।
  3. झ. °व जातो मृतश्चे” ।