क्तवान्न तूपेक्षितवानित्यर्थः । अनुचिताचरणप्रकाशनेन लज्जोत्पादन प्रहासः । लज्जा च
दुःखात्मिकेति द्वेषविषय एव स मुख्यः । अर्जुनस्य तु भगवत्कृपाविषयत्वादनुचिताचरणप्रकाशनस्य च विवेकोत्पत्तिहेतुत्वादेकदलाभावेन गौण एवायं प्रहास इति कथयितुमिवशब्दः । लज्जामुत्पादयितुमिव विवेकमुत्पादयितुमर्जुनस्यानुचिताचरणं भगवता
प्रकाश्यते । लज्जोत्पत्तिस्तु नान्तरीयकतयाऽस्तु माऽस्तु वेति न विवक्षितेति भावः ।
यदि हि युद्धारम्भात्प्रागेव गृहे स्थितो युद्धमुपेक्षेत तदा नानुचितं कुर्यात् । महता
संरम्भेण तु युद्धभूमावागत्य तदुपेक्षणमतवानुचितमिति कथयितुं सेनयोरित्यादिविशेषणम् । एतच्चाशाच्यानित्यादौ स्पष्टं भविष्यति ॥ १० ॥
श्री० टी०–ततः किं वृत्तमित्य[१]पेक्षायामाह-तमुवाचति । प्रहसन्निवेति प्रस- नमुखः सन्नित्यर्थः ॥ १० ॥
म० टी०-तत्रार्जुनस्य युद्धाख्ये स्वधर्म स्वतो जाताऽपि प्रवृत्तिद्विविधैन मोहेन तन्निमित्तेन च शोकेन प्रतिबद्धेति द्विविधो मोहस्तस्य निराकरणीयः । तत्राऽऽत्मनि स्वप्रकाशपरमानन्दरूपे सर्वसंसारधर्मासंसर्गिणि स्थूलसूक्ष्मशरीरद्वयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूप एकः सर्वप्राणिसाधारणः । अपरस्तु युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपोऽर्जुनस्यैव करुणादिदोषनिबन्धनोऽसाधारणः । एवमुपाधित्रयविवेकेन शुद्धात्मस्वरूपबोधः प्रथमस्य निवर्तकः सर्वसाधारणः । द्वितीयस्य तु हिंसादिमत्त्वेऽपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावबोधोऽसाधारणः । शोकस्य तु कारणानिवृत्यैव निवृत्तेर्न पृथक्साधनान्तरापेक्षेत्यभिप्रेत्य क्रमेण भ्रमद्वयमनुवदन्-
श्रीभगवानुवाच- |
अशोच्याशोचितुमयोग्यानेव भीष्मद्रोणादीनात्मसहितांस्त्वं पण्डितोऽपि सन्नन्वशोचोऽनुशोचितवानसि ते म्रियन्ते मन्निमित्तमहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिनेत्येवमर्थकेन दृष्ट्वेमं स्वजनमित्यादिना । तथा चाशोच्ये शोच्यभ्रमः पश्वादिसाधारणस्तवात्यन्तपण्डितस्यानुचित इत्यर्थः । तथा कुतस्त्वा कश्मलमित्यादिना मद्वचनेनानुचितमिदमाचरितं मयेति विमर्शे प्राप्तेऽपि त्वं स्वयं प्रज्ञोऽपि सन्प्रज्ञानामवादान्प्रज्ञैर्वक्तुमनुचिताशब्दांश्च कथं भीष्ममहं संख्य इत्यादीन्भाषसे वदसि न तु लज्जया तूष्णीं भवसि । अतः परं कि मनुचितमस्तीति सूचयितुं चकारः । तथाचाधर्मे
- ↑ ख. ग. घ. ङ. च. छ. ज. झ. “त्यत अहि ।