पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
[अ०९क्ष्लो०१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-

अष्टमेऽष्टविशिष्टेष्टसंपृष्टार्थाष्टनिर्णयैः ।
आक्लिष्टमिष्टधामाप्तिः स्पष्टिताऽष्टमवर्त्मना ॥ १ ॥

इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां महापुरु.

षयोगो नामाष्टमोऽध्यायः ॥ ८ ॥

अथ नवमोऽध्यायः ।

 म० टी०-पूर्वाध्याये मूर्धन्यनाडीद्वारकेण हृदयकण्ठभ्रूमध्यादिधारणासहितेन सर्वेन्द्रियद्वारसंयमगुणकेन योगेन स्वेच्छयोत्क्रान्तप्राणस्याचिरादिमार्गेण ब्रह्मलोकं प्रयातस्य तत्र सम्यग्ज्ञानोदयेन कल्पान्ते परब्रह्मप्राप्तिलक्षणा क्रममुक्तिर्व्याख्याता । तत्र चानेनैव प्रकारेण मुक्तिलभ्यते नान्यथेत्याशङ्कय----

" अनन्यचेताः सततं यो मां स्मरति नित्यशः।
तस्याहं सुलभः"

 इत्यादिना भगवत्तत्त्वविज्ञानात्साक्षान्मोक्षप्राप्तिरभिहिता । तत्र चानन्या भक्तिरसाधारणो हेतुरित्युक्तं " पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया" इति । तत्र पूर्वोक्तयोगधारणापूर्वकप्राणोत्क्रमणार्चिरादिमार्गगमनकालविलम्बादिक्लेशमन्तरेणैव साक्षान्मोक्षप्राप्तये भगवत्तत्त्वस्य तद्भक्तेश्च विस्तरेण ज्ञापनाय नवमोऽध्याय आरम्यते । अष्टमे ध्येयब्रह्मनिरूपणेन तद्ध्याननिष्ठस्य गतिरुक्ता । नवमे तु ज्ञेयब्रह्मनिरूपणेन ज्ञाननिठस्य गतिरुच्यत इति संक्षेपः । तत्र वक्ष्यमाणज्ञानस्तुत्यस्त्रिीक्ष्लोकान्-

श्रीभगवानुवाच-
 इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ॥
 ज्ञान विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥

 इदं प्राग्बहुधोक्तमग्रे च वक्ष्यमाणमधुनोच्यमानं ज्ञानं शब्दप्रमाणकं ब्रह्मतत्त्वविषयक ते तुभ्यं प्रवक्ष्यामि । तुशब्दः पूर्वाध्यायोक्ताद्धयानाज्ज्ञानस्य वैलक्षण्यमाह-इदमेव सम्यग्ज्ञानं साक्षान्मोक्षप्राप्तिसाधनं न तु ध्यानं तस्याज्ञानानिवर्तकत्वात् । तत्त्वन्तःकरणशुद्धिद्वा[१]रेदमेव ज्ञानं संपाद्य क्रमेण मोक्षं जनयतीत्युक्तम् । कीदृशं ज्ञानं गुह्यतमं गोपनीयतममतिरहस्यत्वात् । यतो विज्ञानसहित ब्रह्मानुभवपर्य-


  1. क. ख. रेणेद ।