पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०९क्ष्लो०२]
२८१
श्रीमद्भगवद्गीता।


न्तम् । ईदृशमतिरहस्यमप्यहं शिष्यगुणाधिक्यावक्ष्यामि तुभ्यमनसूयवे । असूया गुणेषु दोषदृष्टिस्तदाविष्करणादिफला । सर्वदाऽयमात्मैश्वर्यख्यापनेनाऽऽत्मानं प्रशंसति मत्पुरस्तादित्येवंरूपा तदहिताय । अनेनाऽऽर्जवसंयमावपि शिष्यगुणौ व्याख्यातौ । पुनः कीदृशं ज्ञानं यज्ज्ञात्वा प्राप्य मोक्ष्यसे सद्य एव संसारबन्धनादशुभात्सर्वदुः- खहेतोः ॥ १॥

श्री०टी०-परेशः प्राप्यते शुद्धभक्त्येति स्थितमष्टमे ।
  नवमे तु तदैश्वर्यमत्याश्चर्य प्रपञ्च्यते ॥

 एवं तावत्सप्तमाष्टमयोः स्वीयं पारमेश्वरं तत्त्वं भक्त्यैव सुलभं नान्यथेत्युक्त्वेदानीमचिन्त्यं स्वकीयमैश्वर्यं भक्तेश्वासाधारणप्रभाव प्रपञ्चयिष्यञ्श्रीभगवानुवाच- इदं त्विति । विशेषेण ज्ञायतेऽनेनेति विज्ञानमुपासनं तत्सहितं ज्ञानमीश्वरविषयमिदं तु अनसूयवे पुनः पुनः स्वमाहात्म्यमेवोपदिशतीत्येवं परमकारुणिके मयि दोषदृष्टिरहिताय ते तुभ्यं वक्ष्यामि । तुशब्दो वैशिष्ट्ये । तदेवाऽऽह-गुह्यतममित्यादिना । गुह्यं धर्मज्ञानं ततो देहादिव्यतिरिक्तात्मज्ञानं गुह्यतरं ततोऽपि परमात्मज्ञानमतिरहस्यवाद्गुह्यतमम् । यज्ज्ञात्वाऽशुभात्संसारान्मोक्ष्यसे सद्य एव मुक्तो भविष्यसि ॥ १ ॥

 म० टी०-पुनस्तदाभिमुख्याय तज्ज्ञानं स्तौति-

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ॥
प्रत्यक्षावगमं धर्म्यं सुमुखं कर्तुमव्ययम् ॥२॥

 राजविद्या सर्वासां विद्यानां राजा सर्वाविद्यानाशकत्वात् , विद्यान्तरस्याविद्यैकदेशविरोधित्वात् । तथा राजगुह्यं सर्वेषां गुह्यानां राजा, अनेकजन्मकृतसुकृतसाध्यत्वेन बहुभिरज्ञातत्वात् । राजदन्तादित्वादुपसर्जनस्य परनिपातः । पवित्रमिदमुत्तमं, प्रायश्चितैर्हि किंचिदेकमेव पापं निवय॑ते । निवृत्तं च तत्स्वकारणे सूक्ष्मरूपेण तिष्ठत्येव । यतः पुनस्तत्पापमुपचिनोति पुरुषः । इदं तु अनेकजन्मसहस्रसंचितानां सर्वेषामपि पापानां स्थूलसूक्ष्मावस्थानां तत्कारणस्य चाज्ञानस्य सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनमिदमेव । न चातीन्द्रिये धर्म इवात्र कस्यचित्संदेहः स्वरूपतः फलतश्च प्रत्यक्षत्वादित्याह-प्रत्यक्षावगममवगम्यतेऽनेनेत्यवगमो मानमवगम्यते प्राप्यत इत्यवगमः फलं, प्रत्यक्षमवगमो मानमस्मिन्निति स्वरूपतः साक्षिप्रत्यक्षत्वं, प्रत्यक्षोऽवगमोऽस्येति फलतः साक्षिप्रत्यक्षत्वम् । मयेदं विदितमतो नष्टमिदानीमत्र ममाज्ञानमिति हि सार्वलौकिकः साक्ष्यनुभवः । एवं लोकानुभवसिद्धत्वेऽपि तज्ज्ञानं धर्म्यं धर्मादनपेतमनेकजन्मसंचितनिष्कामधर्मफलम् । तर्हि दुःसंपादं स्यान्नेत्याह-सुसुखं कर्तुं गुरूपदर्शितविचारसहकृतेन वेदान्तवाक्येन सुखेन कर्तुं शक्यं न देशकालादिव्यवधानमपेक्षते प्रमाणवस्तुपरतन्त्रत्वाज्ज्ञानस्य । एवमनायाससाध्यत्वे