पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०८क्ष्लो०२८]
२७९
श्रीमद्भगवद्गीता।

मार्गौ हे पार्थ मोक्षसंसारप्रापकौ जानन्कश्चिदपि योगी न मुह्यति, सुखबुद्धया स्वर्गादिफलं न कामयते, किंतु परमेश्वरनिष्ठ एव भवतीत्यर्थः । स्पष्टमन्यत् ॥ २७ ॥

 म०टी०-पुनः श्रद्धावृद्धयर्थ योग.स्तौति-

वेदेषु यज्ञेषु तपःसु चैव
 दानेषु यत्पुण्यफलं प्रदिष्टम् ॥
अत्येति तत्सर्वमिदं विदित्वा
 व्योगी परं स्थानमुपैति चाऽऽद्यम् ॥२८॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽक्षरपरब्रह्म-

योगो नामाष्टमोऽध्यायः ॥ ८ ॥

 वेदेषु दर्भपवित्रपाणित्वप्राङ्मुखत्वगुर्वधीनत्वादिभिः सम्यगधीतेषु, यज्ञेष्वङ्गोपाङ्गसाहित्येन श्रद्धया सम्यगनुष्ठितेषु, तपःसु शास्त्रोक्तेषु मनोबुद्ध्यायैकाग्र्येण श्रद्धया सुतप्तेषु, दानेषु तुलापुरुषादिषु देशे काले पात्रे च श्रद्धया सम्यग्दत्तेषु यत्पुण्यफलं पुण्यस्य धर्मस्य फलं स्वर्गस्वाराज्यादि प्रदिष्टं शास्त्रेण, अत्येत्यतिक्रामति तत्सर्वमिदं पूर्वोक्तसप्तप्रश्ननिरूपणद्वारेणोक्तं विदित्वा सम्यगनुष्ठानपर्यन्तमवधार्यानुष्ठाय च योगी ध्याननिष्ठः। न केवलं तदतिक्रामति परं सर्वोत्कृष्टमैश्वरं स्थानमाद्यं सर्वकारणमुपैति च प्रतिपद्यते च सर्वकारणं ब्रह्मैव प्राप्नोतीत्यर्थः। तदनेनाध्यायेन ध्येयत्वेन तत्पदार्थो व्याख्यातः ॥२८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधु-

सूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकाया-

मधिकारिभेदेनाक्षरपरब्रह्मविवरणं नामा-

ष्टमोऽध्यायः ॥ ८॥

 श्री०टी०-अध्यायार्थमष्टप्रश्नार्थनिर्णय सफलमुपसंहरति-वेदेष्विति । वेदेष्वध्ययनादिभिर्यज्ञेष्वनुष्ठानादिभिस्तपःसु कायशोषणादिभिर्दानेषु च सत्पात्रार्पणादिभिर्यत्पुण्यफलमुपदिष्टं शास्त्रेषु तत्सर्वमत्येति ततोऽपि श्रेष्ठं योगैश्वर्यं प्राप्नोति । किं कृत्वा, इदमष्टप्रश्नार्थनिर्णयेनोक्तं तत्त्वं विदित्वा । ततश्च योगी ज्ञानी भूत्वा परमुत्कृष्टमाद्यं जगन्मूलभूतं स्थानं विष्णोः परमं पदं प्राप्नोति ॥ २८ ॥