पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०८ क्ष्लो०१९-२०]
२७३
श्रीमद्भगवद्गीता।

स्वापकाले पूर्वोक्ताः सर्वा अपि व्यक्तयः प्रलीयन्ते तिरो भवन्ति यत आविर्भूतास्तत्रैवाव्यक्तसंज्ञके कारणे प्रागुक्ते स्वापावस्थे प्रजापतौ ॥ १८ ॥

 श्री०टी०-ततः किमत आह-अव्यक्तादिति । कार्यस्याव्यक्तं रूपं कारणात्मकं तस्मादव्यक्तात्कारणरूपाद्व्यज्यन्तेऽभिव्यज्यन्त इति व्यक्तयश्चराचराणि भूतानि प्रादुर्भवन्ति । कदा, अहरागमे ब्रह्मणो दिनस्योपक्रमे । तथा रात्रेरागमे[१] तस्मिन्नेवाव्यक्तसंज्ञके कारणरूपे प्रलयं यान्ति । यद्वा तेऽहोरात्रविद इत्येतन्न विधीयते किं तु ते प्रसिद्धा अहोरात्रविदो जना यद्ब्रह्मणोऽहर्विंदुस्तस्याह्न आगमेऽव्यक्ताव्यक्तयः प्रभवन्ति । यां च रात्रि विदुस्तस्या रात्रेरागमे प्रलीयन्त इति द्वयोरन्वयः ॥ १८ ॥

 म०. टी०-एवमाशुविनाशित्वेऽपि संसारस्य न निवृत्तिः क्लेशकर्मादिभिरवशतया पुनः पुनः प्रादुर्भावात्प्रादुर्भूतस्य च पुनः क्लेशादिवशेनैव तिरोभावात् । संसारे विपरिवर्तमानानां सर्वेषामपि प्राणिनामस्वातन्त्र्यादवशानामेव जन्ममरणादिदुःखप्रबधसंबन्धादलमनेन संसारेणेतिवैराग्योत्पत्त्यर्थं समाननामरूपत्वेन च पुनः पुनः प्रादुर्भावात्कृतनाशाकृताभ्यागमपरिहारार्थ चाऽऽह-

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ॥
राध्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

 भूतग्रामो भूतसमुदायः स्थावरजङ्गमलक्षणो यः पूर्वस्मिन्कल्पे स्थितः स एवायमेतस्मिन्कल्पे जायमानोऽपि न तु प्रतिकरूपमन्योऽन्यश्च । असत्कार्यवादानभ्युपगमात् ।

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो स्वः" इति श्रुतेः ॥

 "समाननामरूपत्वादावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च " इति न्यायाच्च । अवश इत्यविद्याकामकर्मादिपरतन्त्रः । हे पार्थ स्पष्टमितरत् ॥ १९ ॥

 श्री०टी०-तत्र च कृतनाशाकृताभ्यागमशङ्कां वारयन्वैराग्यार्थं सृष्टिप्रलयप्रवाहस्याविच्छेदं दर्शयति-भूतेति । भूतानां चराचरप्राणिनां ग्रामः समूहो यः प्रागासीत्स एवायमहरागमे भूत्वा भूत्वा रात्रैरागमे प्रलीय प्रलीय[२] पुनरप्यहरागमेऽवशः कर्मादिपरतन्त्रः प्रभवति नान्य इत्यर्थः ॥ १९ ॥

 म०टी०-एवमवशानामुत्पत्तिविनाशप्रदर्शनेनाऽऽब्रह्मभुवनाल्लोकाः पुनरावर्तिन इत्येतद्वयाख्यातमधुना मामुपेत्य पुनर्जन्म न विद्यत इत्येतद्व्याचष्टे द्वाभ्याम् ---

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ॥
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥


  1. क. मे ब्रह्मशयने त ।
  2. क. प्यते ।