पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७१
[अ०८ क्ष्लो०१८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 मनुष्यपरिमाणेन सहस्रयुगपर्यन्तं सहस्रं युगानि चतुर्युगानि(णि) पर्यन्तोऽवसानं यस्य तत् । " चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते " इति हि पौराणिकं वचनम् । तादृशं ब्रह्मणः प्रजापतेरहर्दिनं यद्ये विदुः, तथा रात्रिं युगसहस्रान्तां चतुर्युगसहस्रपर्यन्तां, ये विदुरित्यनुवर्तते, तेऽहोरात्रविदस्त एवाहोरात्रविदो योगिनो जनाः । ये तु चन्द्रार्कगत्यैव विदुस्ते नाहोरात्रविदः स्वल्पदर्शित्वादित्यभिप्रायः ॥ १७ ॥

 श्री०टी०-ननु च-

" तपस्विनो दानशीला वीतरागास्तितिक्षवः ।
त्रिलोक्या उपरि स्थानं लभन्ते शोकवर्जितम् "

 इत्यादिपुराणवाक्यैत्रिलोक्याः सकाशान्महर्लोकादीनामुत्कृष्टत्वं गम्यते । विनशित्वे च सर्वेषामविशिष्टे कथमसौ विशेषः स्यादित्याशङ्कय बह्वल्पकालावस्थायित्वनिमित्तोऽसौ विशेष इत्याशयेन स्वमानेन शतवर्षायुषो ब्रह्मणोऽहन्यहनि त्रिलोक्या उत्पत्तिर्निशि निशि च प्रलयो भवतीति दर्शयिष्यन्ब्रह्मणोऽहोरात्रयोः प्रमाणमाह- सहस्रति । सहस्रं युगानि पर्यन्तोऽवसानं यस्य तद्ब्रह्मणो यदहस्तद्ये विदुः, युगसहस्रमन्तो यस्यास्तां रात्रिं च योगबलेन ये विदुस्त एव सर्वज्ञा जना अहोरात्रविदः । येषां तु केवलं चन्द्रार्कगत्यैव ज्ञानं ते तथाऽहोरात्रविदो न भवन्ति अल्पदर्शित्वात् । युगशब्देनात्र चतुर्युगमभिप्रेतम् । "चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते” [१]इत्यादिपराणोक्तेः । ब्रह्मण इति महर्लोकादिवासिनामप्युपलक्षणार्थम् । तत्रायं कालगणनाप्रकारः-मनुष्याणां यद्वर्ष तद्देवानामहोरात्रं, तादृशैरहोरात्रैः पक्षमासादिकल्पनया द्वादशभिर्वर्षसहस्रैश्चतुर्युगं भवति । चतुर्युगसहस्रं च ब्रह्मणो दिनम् , तावत्परिमाणैव रात्रिः । तादृशैश्चाहोरात्रैः पक्षमासादिक्रमेण वर्षशतं ब्रह्मणः परमायुरिति ॥ १७ ॥

 म०टी०-यथोक्तैरहोरात्रैः पक्षमासादिगणनया पूर्ण वर्षशतं प्रजापतेः परमायुरिति कालपरिच्छिन्नत्वेनानित्योऽसौ । तेन तल्लोकात्पुनरावृत्तिर्युक्तैव । ये तु ततोऽर्वाचीनास्तेषां तदहर्मात्रपरिच्छिन्नत्वात्तत्तल्लोकेभ्यः पुनरावृत्तिरिति किमु वक्तव्यमित्याह-

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ॥
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८॥

 अत्र दैनंदिनसृष्टिप्रलययोरेव वक्तुमुपक्रान्तत्वात्तत्र चाऽऽकाशादीनां सत्त्वादव्यक्तशब्देनाव्याकृतावस्था नोच्यते । किं तु प्रजापतेः स्वापावस्थैव । स्वापावस्थः प्रजापतिरिति यावत् । अहरागमे प्रजापतेः प्रबोधसमयेऽव्यक्तात्तत्स्वापावस्थारूपाध्व्यक्तयः शरीरविषयादिरूपा भोगभूमयः प्रभवन्ति व्यवहारक्षमतयाऽभिव्यज्यन्ते । रात्र्यागमे तस्य


  1. क. इति विष्णुप।