पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०८ क्ष्लो०१६-१७]
२७१
श्रीमद्भगवद्गीता।


 म० टी०-भगवन्तमुपागतानां सम्यग्दर्शिनामपुनरावृत्तौ कथितायां ततो विमुखानामसम्यग्दर्शिनां पुनरावृत्तिरर्थसिद्धेत्याह-

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ॥
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

 आब्रह्मभुवनात् , भवन्त्यत्र भूतानीति भुवनं लोकः । अभिविधावाकारः । ब्रह्मलोकेन सह सर्वेऽपि लोका मद्विमुखानामसम्यग्दर्शिनां भोगभूमयः पुनरावर्तिनः पुनरावर्तनशीलाः । ब्रह्मभवनादिति पाठे भवनं वासस्थानमिति स एवार्थः । हेऽर्जुन स्वतःप्रसिद्धमहापौरुष । किं तद्वदेव त्वां प्राप्तानामपि पुनरावृत्तिर्नेत्याह-मामीश्वरमेकमुपेत्य तु । तुर्लोकान्तरवैलक्षण्यद्योतनार्थोऽवधारणार्थो वा । मामेव प्राप्य निर्वृताना हे कौन्तेय मातृतोऽपि प्रसिद्धमहानुभाव पुनर्जन्म न विद्यते पुनरावृत्तिर्नास्तीत्यर्थः । अत्रार्जुन कौन्तेयेति संबोधनद्वयेन स्वरूपतः कारणतश्च शुद्धिर्ज्ञानसंपत्तये सूचिता । अत्रेयं व्यवस्था, ये क्रममुक्तिफलाभिरुपासनाभिर्ब्रह्मलोकं प्राप्तास्तेषामेव तत्रोत्पन्नसम्यग्दर्शनानां ब्रह्मणा सह मोक्षः । ये तु पञ्चाग्निविद्यादिभिरतत्क्रतवोऽपि तत्र गतास्तेषामवश्यंभावि पुनर्जन्म । अत एव क्रममुक्त्यभिप्रायेण " ब्रह्मलोकमभिसंपद्य[१]ते न च पुनरावर्तते[२] " " अनावृत्तिः शब्दात् " इति श्रुतिसूत्रयोरुपपत्तिः । इतरत्र " तेषामिह न पुनरावृत्तिः " " इमं मानवमावर्त नाऽऽवर्तन्ते " इतीहेममिति च विशेषणाद्भगमनाधिकरणकल्पादन्यत्र पुनरावृत्तिः प्रतीयते ॥ १६ ॥

 श्री०टी०-एतदेव सर्वेष्वपि लोकेषु पुनरावृत्तिं दर्शयनिर्धारयति-आब्रह्मेति । ब्रह्मणो भुवनं वासस्थानं ब्रह्मलोकस्तमभिव्याप्य सर्वे लोकाः पुनरावर्तनशीलाः । ब्रह्मलोकस्यापि विनाशित्वात्तत्रत्यानामनुत्पन्नज्ञानानामवश्यंभावि पुनर्जन्म । य एवं क्रममुक्तिफलाभिरुपासनाभिर्ब्रह्मलोकं प्राप्तास्तेषामेव तत्रोत्पन्नज्ञानानां ब्रह्मणा सह मोक्षो नान्येषाम्[३] । मामुपेत्य वर्तमानानां तु पुनर्जन्म नास्त्येवेत्यर्थः ॥ १६ ॥

 म० टी०-ब्रह्मलोकसहिताः सर्वे लोकाः पुनरावर्तिनः, कस्मात्कालपरिच्छिन्नत्वादित्याह-

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः॥
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥


  1. च. ज. झ. "यन्ते न ।
  2. च. ज. झ.र्तन्ते' अ।
  3. क.म् । तथा च-ब्रह्मणा सह ते सर्वे संप्राप्त प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् । परस्यान्तै ब्रह्मणः परमायुषोऽन्ते कृतात्मानो ब्रह्मभावापादितमनोवृत्तयः । कर्मद्वारेण येषां ब्रह्मलोकप्राप्तिस्तेषां न मोक्ष इति परिनिष्टितिः । मा।