पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
[अ०८क्ष्लो०११]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-



 तस्माच्चराचरस्थूलप्रपञ्चकारणभूताद्धिरण्यगर्भाख्यादव्यक्तात्परो व्यतिरिक्तः श्रेष्ठो वा तस्यापि कारणभूतः । व्यतिरेकेऽपि सालक्षण्यं स्यादिति नेत्याह-अन्योऽत्यन्तविलक्षणः न तस्य प्रतिमा अस्ति" इति श्रुतेः । अव्यक्तो रूपादिहीनतया चक्षुराद्यगोचरो भावः कल्पितेषु सर्वेषु कार्येषु सद्रूपेणानुगतः । अत एव सनातनो नित्यः । तुशब्दो हेयादनित्यादव्यक्तादुपादेयत्वं नित्यस्याव्यक्तस्य वैलक्षण्यं सूचयति । एतादृशो यो भावः स हिरण्यगर्भ इव सर्वेषु भूतेषु नश्यत्स्वपि न विनश्यति उत्पद्यमानेष्वपि नोत्पद्यत इत्यर्थः । हिरण्यगर्भस्य तु कार्यस्य भूताभिमानित्वात्तदुत्पत्तिविनाशाभ्यां युक्तावेवोत्पत्तिविनाशौ न तु तदनभिमानिनोऽकार्यस्य परमेश्वरस्येति भावः ॥ २० ॥

 श्री०टी०-लोकानामनित्यत्वं प्रपञ्चय परमेश्वरस्वरूपस्य नित्यत्वं प्रपञ्चयति पर इति द्वाभ्याम्-तस्माच्चराचरकारणभूतादव्यक्तात्परस्तस्यापि कारणभूतो योऽन्यस्तद्विलक्षणोऽव्यक्तश्चक्षुराद्यगोचरो भावः सनातनोऽनादिः स तु सर्वेषु कार्यकारणलक्षणेषु भूतेषु नश्यत्स्वपि न विनश्यति ॥ २० ॥

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ॥ यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥

 म०टी०-यो भाव इहाव्यक्त इत्यक्षर इति चोक्तोऽन्यत्रापि श्रुतिषु स्मृतिषु च तं भावमाहुः श्रुतयः स्मृतयश्च “ पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः" इत्याद्याः परमामुत्पत्तिविनाशशून्यस्वप्रकाशपरमानन्दरूपां गतिं पुरुषार्थविश्रान्तिम् । यं भावं प्राप्य न पुनर्निवर्तन्ते संसाराय तद्धाम स्वरूपं मम विष्णोः परमं सर्वोत्कृष्टम् । मम धामेति राहोः शिर इतिवद्भेदकल्पनया पष्ठी। अतोऽहमेव परमा गतिरित्यर्थः॥२१॥

 श्री०टी०-अविनाशे प्रमाणं दर्शयन्नाह-अव्यक्त इति । यो भावोऽव्यतोऽतीन्द्रियोऽक्षरः प्रदेशनाशशून्य इति तथाऽक्षरात्संभवतीह[१] विश्वमित्यादिश्रुतिष्वक्षर इत्युक्तस्तं परमां गतिं गम्यं पुरुषार्थमाहुः "पुरुषा[२]न्न परं किंचित्सा काष्ठा सा परा गतिः” इत्यादिश्रुतयः । परमगतित्वमेवाऽऽह-यं प्राप्य पुनर्न निवर्तन्त इति । तच्च ममैव धाम स्वरूपम् । ममेत्युपचारे षष्ठी राहोः शिर इतिवत् । अतोऽहमेव परमा गतिरित्यर्थः ॥ २१॥

 म० टी०-इदानीम्----

" अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः

 इति प्रागुक्तं भक्तियोगमेव तत्प्राप्त्युपायमाह-


  1. ख. ग. घ. छ. ज. "तीदं वि।
  2. ज. झ. पानाप ।