पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
[अ०८श्लो०३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-

क्षितम् । एतदेव विवृणोति--परमामति । परमं स्वप्रकाशपरमानन्दरूपं प्रशासनस्य कृत्स्नजडवर्गधारणस्य च लिङ्गस्य तत्रैवोपपत्तेः । अक्षरमम्बरान्तधृतेः " इति न्यायात् । न विहाक्षरशब्दस्य वर्णमात्रे रूढत्वाच्छ्रतिलिङ्गाधिकरणन्यायमूलकेन " रूढिर्योगमपहरति" इति न्यायेन रथकारशब्देन जातिविशेषवत्प्रणवाख्यमक्षरमेव ग्राह्यं तत्रोक्तलिङ्गासंभवात् , ओमित्येकाक्षरं ब्रह्मेति च परेण विशेषणात् "आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्" इति न्यायात् । “वर्षासु रथकार आदधीत" इत्यत्र तु जातिविशेषे नास्त्यसंभव इति विशेषः । अनन्यथासिद्धेन तु लिङ्गेन श्रुतेर्बाधः "आकाशस्तल्लिङ्गात् " इत्यादौ विवृतः । एतावास्त्विह विशेषः, अनन्यथासिद्धेन लिङ्गेन श्रुतेर्बाधे यत्र योगः संभवति तत्र स एव गृह्यते मुख्यत्वात् , यथाऽऽज्यैः स्तुवते पृष्ठैः स्तुवत इत्यादौ । यथा चात्रैवाक्षरशब्दे । यत्र तु योगोऽपि न संभवति तत्र गौणी वृत्तिर्यथाऽऽकाशप्राणादिशब्देषु । आकाशशब्दस्यापि ब्रह्मणि आ समन्तात्काशत इति योगः संभवतीति चेत्, स एव गृह्यतामिति पञ्चपादीकृतः । तथा च पारमर्ष सूत्रं " प्रसिद्धेश्च " इति । कृतम[१]त्र विस्तरेण । तदेवं किं तद्ब्रह्मेति निर्णीतम् । अधुना किमध्यात्ममिति निर्णीयते-यदक्षरं ब्रह्मेत्युक्तं तस्यैव स्वभावः स्वो भावः स्वरूपं प्रत्यक्चैतन्यं न तु स्वस्य भाव इति षष्ठीसमासः, लक्षणाप्रसङ्गात्, षष्ठीतत्पुरुषबाधेन कर्मधारयपरिग्रहस्य श्रुतपदार्थान्वयेन निषादस्थपत्यधिकरणसिद्धत्वात् । तस्मान्न ब्रह्मणः संबन्धि किं तु ब्रह्मस्वरूपमेव । आत्मानं देहमधिकृत्य भोकृतया वर्तमानमध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते न करणग्राम इत्यर्थः । यागदानहोमात्मकं वैदिकं कर्मैवात्र कर्मशब्देन विवक्षितमिति तृतीयप्रश्नोत्तरमाह-भूतानां भवनधर्मकाणां सर्वेषां स्थावरजङ्गमानां भावमुत्पत्तिमुद्भवं वृद्धिं च करोति यो विसर्गस्त्यागस्तत्तच्छास्त्रविहितो यागदानहोमात्मकः स इह कर्मसंज्ञितः कर्मशब्देनोक्त इति यावत् । तत्र देवतोदेशेन द्रव्यत्यागो याग उत्तिष्ठद्धोमो वषट्कारप्रयोगान्तः । स एवोपविष्टहोमः स्वाहाकारप्रयोगान्त आसेचनपर्यन्तो होमः । परस्वत्वापत्तिपर्यन्तः स्वत्वत्यागो दानम् । सर्वत्र च त्यागांशोऽनुगतः । तस्य च भूतभावाद्भवकरत्वम् -----

" अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः"

 इति स्मृतेः, “ ते वा एते आहुती हुते उत्क्रामतः " इत्यादिश्रुतेश्च ॥ ३ ॥

 श्री०टी०-प्रश्नक्रमेणोत्तरं श्रीभगवानुवाचाक्षरमितित्रिभिः-न क्षरति न चलतीत्यक्षरम्[२] । परमं यदक्षरं जगतो मूलकारणं तद्ब्रह्म । " एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति " इति श्रुतेः । स्वस्यैव ब्रह्मण एवांशतो जीवरूपेण भवनं स्वभावः । स


  1. ह, च, मतिवि' ।
  2. क. मू । ननु जीवोऽप्यक्षरस्तनाऽऽह प'।