पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०८क्ष्लो०२-३]
२६१
श्रीमद्भगवद्गीता।


अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ॥
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥२॥

 अधियज्ञो यज्ञमधिगतो देवतात्मा वा परब्रह्म वा । स च कथं केन प्रकारेण चिन्तनीयः । किं तादात्म्येन किं वाऽत्यन्ताभेदेन । सर्वथाऽपि स किमस्मिन्देहे वर्तते ततो बहिर्वा । देहे चेत्स कोऽत्र बुद्धयादिस्तव्यतिरिक्तो वा । अधियज्ञः कथं कोऽत्रेति न प्रश्नद्वयम् । किं तु सप्रकार एक एव प्रश्न इति द्रष्टव्यम् । परमकारुणिकत्वा [१] ।दायासेनापि सर्वोपद्रवनिवारकस्य भगवतोऽनायासेन मत्संदेहोपद्रवनिवारणमीपत्करमुचितमेवेति सूचयन्संबोधयति हे मधुसूदनेति । प्रयाणकाले च सर्वकरणग्रामवैयग्र्याचित्तसमाधानानुपपत्तेः कथं केन प्रकारेण नियतात्मभिः समाहितचित्तैर्ज्ञेयोऽसीत्युक्तशङ्कासूचनार्थश्चकारः । एतत्सर्व सर्वज्ञत्वात्परमकारुणिकत्वाच्च शरणागतं मां प्रति कथयेत्यभिप्रायः ॥ २॥

 श्री०टी०-किं च-अधियज्ञ इति । अत्र देहे यो यज्ञो निर्वर्तते तस्मिन्कोऽधियज्ञोऽधिष्ठाता प्रयोजकः फलदाता च क इत्यर्थः । स्वरूपं पृष्ट्वाऽधिष्ठानप्रकार पृच्छति-कथं केन प्रकारेणासावस्मिन्देहे स्थितो यज्ञमधितिष्ठतीत्यर्थः । यज्ञग्रहणं सर्वकर्मणामुपलक्षणार्थम् । अन्तकाले च नियतचित्तैः पुरुषैः कथं केनोपायेन ज्ञेयोऽसि ॥ २॥

 म०. टी०-एवं सप्तानां प्रश्नानां क्रमेणोत्तरं त्रिभिः श्लोकैः-

श्रीभगवानुवाच-
 अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ॥
 भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥३॥

 प्रश्नक्रमेण हि निर्णये प्रष्टुरभीष्टसिद्धिरनायासेन स्यादित्यभिप्रायवान्भगवानत्र श्लोके प्रश्नत्रयं क्रमेण निर्धारितवान् । एवं द्वितीयश्लोकेऽपि प्रश्नत्रयं तृतीयश्लोके त्वेकमिति विभागः । निरुपाधिकमेव ब्रह्मात्र विवक्षितं ब्रह्मशब्देन न तु सोपाधिकमिति प्रथमप्रश्नस्योत्तरमाह-अक्षरं न क्षरतीत्यविनाशि अश्र्नुते वा सर्वमिति सर्वव्यापकम् । " एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु" इत्याद्युपक्रम्य “ एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, नान्यदतोऽस्ति द्रष्टु" इत्यादि मध्ये परामृश्य " एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च " इत्युपसंहृतं श्रुत्या । सर्वोपाधिशून्यं सर्वस्य प्रशासितु अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ अस्मिंश्च शरीरेन्द्रियसंघाते विज्ञातृ निरुपाधिकं चैतन्यं तदिह ब्रह्मेति विव.


  1. क, ख, वादनायासेनैव सः