पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०८क्ष्लो०४]
२६३
श्रीमद्भगवद्गीता।


एवाऽऽत्मानं देहमधिकृत्य भोक्तृत्वेन वर्तमानोऽध्यात्मशब्देनोच्यत इत्यर्थः । भूतानां जरायुजादीनां भाव उत्पत्तिः, उद्भवश्व-

" अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः "

 इत्युक्तक्रमेण वृद्धिस्तौ भावोद्भवौ करोति यो विसर्गो देवतोद्देशेन द्रव्यत्यागरूपो यज्ञः, सर्वकर्मणामुपलक्षणमेतत् , स कर्मशब्दवाच्यः ॥ ३ ॥

 म०टी०-संप्रत्यग्रिमप्रश्नत्रयस्योत्तरमाह-

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ॥
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४॥

 क्षरतीति क्षरो विनाशी भावो यत्किंचिज्जनिमद्वस्तु भूतं प्राणिजातमधिकृत्य भवतीत्यधिभूतमुच्यते । पुरुषो हिरण्यगर्भः समष्टिलिङ्गात्मा व्यष्टिसर्वकरणानुग्राहकः " आत्मैवेदमग्र आसीत्पुरुषविधः" इत्युपक्रम्य “ स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुषः " इत्यादिश्रुत्या प्रतिपादितः । चकारात्-

" स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत "

 इत्यादिस्मृत्या च प्रतिपादितः । अधिदैवतं दैवतान्यादित्यादीन्यधिकृत्य चक्षुरादिकरणान्यनुगृह्णातीति तथोच्यते । अधियज्ञः सर्वयज्ञाधिष्ठाता सर्वयज्ञफलदायकश्च । सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता " यज्ञो वै विष्णुः" इति श्रुतेः । स च विष्णुरधियज्ञोऽहं वासुदेव एव न मद्भिन्नः कश्चित् । अत एव परब्रह्मणः सकाशादत्यन्ताभेदेनैव प्रतिपत्तव्य इति कथमिति व्याख्यातम् । स चात्रास्मिन्मनुष्यदेहे यज्ञरूपेण वर्तते बुद्ध्यादिव्यतिरिक्तो विष्णुरूपत्वात् । एतेन स किमस्मिन्देहे ततो बहिर्वा, देहे चेत्कोऽत्र बुद्ध्यादिस्तव्यतिरिक्तो वेति संदेहो निरस्तः । मनुष्य[१]देहे च यज्ञस्यावस्थानं यज्ञस्य मनुष्यदेहनिर्वर्त्यत्वात् । " पुरुषो वै यज्ञः पुरुषस्तेन यज्ञो यदेनं पुरुषस्तनुते इत्यादिश्रुतेः । हे देहभृतां वर सर्वप्राणिनां श्रेष्ठेति संबोधयन्प्रतिक्षणं मत्संभाषणात्कृतकृत्यस्त्वमेतद्बोधयोग्योऽसीति प्रोत्साहयत्यर्जुनं भगवान् । अर्जुनस्य सर्वप्राणिश्रेष्ठत्वं भगवदनुग्रहातिशयभाजनत्वात्प्रसिद्ध मेव ॥ ४ ॥

 श्री० टी०-किं च-अधिभूतमिति । क्षरो भावो विनश्वरो देहादिपदार्थों भूतं प्राणिमात्रमधिकृत्य भवतीत्यधिभूतमुच्यते । पुरुषो वैराजः सूर्यमण्डलमध्यवर्ती स्वांभूतसर्वदेवतानामधिपतिरधिदैवतमुच्यते ।


  1. ङ. च. झ. 'देह एव या