पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
[अ०७क्ष्लो२५-२६]
मधुसदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


कमलकौमोदकीचक्रवरधारिचतुर्भुजे श्रीमद्वैतनेयवाहने निखिलसुरलोकसंपादितराजराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधदिव्यलीलाविलासशीले सर्वावतारशिरोमणौ साक्षाद्वैकुण्ठनायके निखिललोकदुःखनिस्ताराय भुवमवतीर्णे विरिञ्चिप्रपच्चासंभविनिरतिशयसौन्दर्यसारसर्वस्वमूर्तौ बाललीलाविमोहितविधातरि तरणिकिरणोज्ज्वलदिव्यपीताम्बरे निरुपमश्यामसुन्दरे करदीकृतपारिजातार्थपराजितपुरंदरे बाणयुद्धविजितशशाङ्कशेखरे समस्तसुरासुरविजयिनरकप्रभृतिमहादैतेयप्रकरप्राणपर्यन्तसर्वस्वहारिणि श्रीदामादिपरमरङ्कमहावैभवकारिणि षोडशसहस्रदिव्यरूपधारिण्यपरिमेयगुणगरिमणि महामहिमनि नारदमार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनोऽपि मनुष्यबुद्धिर्जीवबुद्धिर्वेत्यर्जुनाशङ्कामपनिनीषुराह भगवान् -

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ॥
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५॥

 अहं सर्वस्य लोकस्य न प्रकाशः स्वेन रूपेण प्रकटो न भवामि । किं तु केषांचिन्मद्भक्तानामेव प्रकटो भवामीत्यभिप्रायः । कथं सर्वस्य लोकस्य न प्रकट इत्यत्र हेतुमाह-योगमायासमावृतः, योगो मम संकल्पस्तद्वशवर्तिनी माया योगमाया तयाऽयमभक्तो जनो मां स्वरूपेण न जानात्वितिसंकल्पानुविधायिन्या मायया सम्यगावृतः सत्यपि ज्ञानकारणे ज्ञानविषयत्वायोग्यः कृतः । अतो यदुक्तं परं भावमजानन्त इति तत्र मम संकल्प एव कारणमित्युक्तं भवति । अतो मम मायया मूढ आवृतज्ञानः सन्नयं चतुर्विधभक्तविलक्षणो लोकः सत्यपि ज्ञानकारणे मामजमव्ययमनाद्यनन्तं परमेश्वरं नाभिजानाति, किं तु. विपरीतदृष्ट्या मनुष्यमेव कंचिन्मन्यत इत्यर्थः । विद्यमानं वस्तुस्वरूपमावृणोत्यविद्यमानं च किंचिद्दर्शयतीति लौकिकमायायामपि प्रसिद्धमेतत् ॥ २५॥

 श्री०टी०-तेषां स्वाज्ञाने हेतुमाह-नाहमिति । सर्वस्य लोकस्य नाहं प्रकाशः प्रकटो न भवामि किं तु मद्भकानामेव । यतो योगमायया समावृतः । योगो युक्तिर्मदीयः कोऽप्यचिन्त्यप्रज्ञाविलासः । स एव मायाऽघटमानघटना[१]पटीय[२]स्त्वात्तया संछन्नः। अत एव मत्स्वरूपज्ञाने मूढः सन्नयं लोकोऽजमव्ययं च मां न जानाति॥२५॥

 म.टी०-अतो मायया स्वाधीनया सर्वव्यामोहकत्वात्स्वयं चाप्रतिबद्धज्ञानत्वात्-

वेदाहं समतीतानि वर्तमानानि चार्जुन ॥
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥


  1. क. म. नाचातुर्यमनया ।
  2. च. यस्त्वं तया ।