पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०७क्ष्लो०२७]
२५७
श्रीमद्भगवद्गीता।


 अहमप्रतिबद्धसर्वविज्ञानो मायया सर्वांल्लोकान्मोहयन्नपि समतीतानि चिरविनष्टानि वर्तमानानि च भविष्याणि च । एवं कालत्रयवर्तीनि भूतानि स्थावरजङ्गमानि सर्वाणि वेद जानामि हेऽर्जुन । अतोऽहं सर्वज्ञः परमेश्वर इत्यत्र नास्ति संशय इत्यर्थः । मां तु, तुशब्दो ज्ञानप्रतिबन्धद्योतनार्थः । मां सर्वदर्शिनमपि मायाविनमिव तन्मायामोहितः कश्चन कोऽपि मदनुग्रहभाजनं मद्भक्तं विना न वेद मन्मायामोहितत्वात् । अतो मत्तत्ववेदनाभावादेव प्रायेण प्राणिनो मां न भजन्त इत्यभिप्रायः ॥ २६ ॥

 श्री०टी०सर्वोत्तमं मत्स्वरूपमजानन्त इत्युक्तम् । तदेव स्वस्य सर्वोत्तमत्वमनावृतज्ञानशक्तित्वेन दर्शयन्नन्येषामज्ञानमाह-वेदेति । समतीतानि विनष्टानि वर्तमानानि च भविष्याणि च भावीनि च त्रिकालवर्तीनि भूतानि स्थावरजङ्गमानि सर्वाण्यहं वेद जानामि, मायाश्रयत्वान्मम, तस्याः स्वाश्रयव्यामोहकत्वाभावादिति प्रसिद्धम् । मां तु न कोऽपि वेत्ति मन्मायामोहितत्वात् । प्रसिद्धं हि लोके मायायाः स्वाश्रयाधीनत्वमन्यमोहकत्वं च ॥ २६ ॥

 म० टी०-~-योगमायां भगवत्तत्त्वविज्ञानप्रतिबन्धे हेतुमुक्त्वा देहेन्द्रियसंघाताभि- मानातिशयपूर्वकं भोगाभिनिवेशं हेत्वन्तरमाह-

इच्छादेषसमुत्थेन द्वंद्वमोहेन भारत ॥ सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥२७॥

 इच्छाद्वेषाभ्यामनुकूलप्रतिकूलविषयाभ्यां समुत्थितेन शीतोष्णसुखदुःखादिद्वंद्वनिमित्तेन मोहेनाहं सुख्यहं दुःखीत्यादिविपर्ययेण सर्वाण्यपि भूतानि संमोहं विवेकायोग्यत्वं सर्गे स्थूलदेहोत्पत्तौ सत्यां यान्ति । हे भारत हे परंतपेति संबोधनद्वयस्य कुलमहिम्ना स्वरूपशक्त्या च त्वां द्वंद्वमोहाख्यः शत्रुर्नाभिभवितुमलमिति भावः । नहीच्छाद्वेषरहितं किंचिदपि भूतमस्ति । न च ताभ्यामाविष्टस्य बहिर्विषयमपि ज्ञानं संभवति किं पुनरात्मविषयम् । अतो रागद्वेषव्याकुलान्तःकरणत्वात्सर्वाण्यापि भूतानि मां परमेश्वरमात्मभूतं न जानन्ति अतो न भजन्ते भजनीयमपि ॥ २७ ॥

 श्री०टी०-तदेवं मायाविषयत्वेन जीवानां परमेश्वराज्ञानमुक्तम् । तस्यैवाज्ञानस्य दृढत्वे कारणमाह-इच्छाद्वेषसमुत्थेनेति । सृज्यत इति सर्गः । सर्गे स्थूलदेहोत्पत्तौ सत्यां तदनुकूल इच्छा तत्प्रतिकूले च द्वेषः । ताभ्यां समुत्थः समुद्भूतो यः शीतोष्णसुखदुःखादिद्वंद्वनिमित्तो मोहो विवेकभ्रंशस्तेन सर्वभूतानि संमोहमहमेव सुखी दुःखी चेति गाढतरमभिनिवेशं प्राप्नुवन्ति । अतस्तानि मज्ज्ञानाभावान्न मां भजन्तीति भावः ॥ २७ ॥

 म० टी०-यदि सर्वभूतानि संमोहं यान्ति कथं तर्हि चतुर्विधा भजन्ते मामित्युक्तं, सत्यं सुकृतातिशयेन तेषां क्षीणपापत्वादित्याह- .