पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०७क्ष्लो ०२४]
२५५
श्रीमद्भगवद्गीता।


 श्री० टी०-तदेवं यद्यपि सर्वा अपि देवता ममैव मूर्तयोऽतस्तदाराधनमपि वस्तुतो मदाराधनमेवाहमेव च तत्र फलदाताऽपि तथाऽपि तु साक्षान्मद्भक्तानां च तेषां च फलवैषम्यं भवतीत्याह-अन्तवत्तिति । अल्पमेधसां परिच्छिन्नदृष्टीनां मया दत्तमपि तत्फलमन्तवत्तु विनाशि भवति । तदेवाऽऽह-देवान्यजन्तीति देवयजस्ते देवानन्तवतो यान्ति । मद्भक्तास्तु मामनाद्यन्तं परमानन्दं प्राप्नुवन्ति ॥ २३ ॥

 म०टी०एवं भगवद्भजनस्य सर्वोत्तमफलत्वेऽपि कथं प्रायेण प्राणिनो भगव-

इत्यत्र हेतुमाह भगवान्----

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः॥
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४॥

 अव्यक्तं देहग्रहणात्प्राक्कार्याक्षमत्वेन स्थितमिदानीं वसुदेवगृहे व्यक्तिं भौतिकदेहावच्छेदेन कार्यक्षमतां प्राप्तं कंचिज्जीवमेव मन्यन्ते मामीश्वरमप्यबुद्धयो विवेकशून्याः । अव्यक्तं सर्वकारणमपि मां व्यक्तिं कार्यरूपतां मत्स्यकूर्माद्यनेकावताररूपेण प्राप्तमिति वा । कथं ते जीवास्त्वां न [१]विविञ्चन्ति । तत्राबुद्धय इत्युक्तं हेतुं विवृणोति-परं सर्वकारणरूपमव्ययं नित्यं मम भावं स्वरूपं सोपाधिकमजानन्तस्तथा निरुपाधिकमप्यनुत्तमं सर्वोत्कृष्टमनतिशयाद्वितीयपरमानन्दघनमनन्तं मम स्वरूपमजानन्तो जीवानुकारिकार्यदर्शनाज्जीवमेव कंचिन्मां मन्यन्ते । ततो [२]मामनीश्वरत्वेनाभिमतं विहाय प्रसिद्धं देवतान्तरमेव भजन्ते । ततश्चान्तवदेव फलं प्राप्नुवन्तीत्यर्थः । अग्रे च वक्ष्यते--अवजानन्ति मां मूढा मानुषीं तनुमाश्रितमिति ॥ २४ ॥

 श्री०टी०-ननु च समाने प्रयासे महति च फलविशेषे सति सर्वेऽपि किमिति देवतान्तरं हित्वा त्वामेव न भजन्ति तत्राऽऽह-अव्यक्तमिति । अव्यक्तं प्रपञ्चातीतं मां व्यक्तिं मनुष्यमत्स्यकूर्मादिभावं प्राप्तमल्पबुद्धयो मन्यन्ते । तत्र हेतुः-मम परं भावं स्वरूपमजानन्तः । कथंभूतम् , अव्ययं नित्यं न विद्यत उत्तमो यस्मात्तं भावम् । अतो जगद्रक्षार्थं लीलयाऽऽविकृतनानाविशुद्धोर्जितसत्त्वमूर्तिं मां परमेश्वरं च स्वकर्मनिर्मितभौतिकदेहं च देवतान्तरं समं पश्यन्तो मन्दमतयो मां ना[३]ऽऽद्रियन्ते । प्रत्युत क्षिप्रफलदं देवतान्तरमेव भजन्ति । ते चोक्तप्रकारेणान्तवत्फलं प्राप्नुवन्तीत्यर्थः ॥ २४ ॥

 म० टी०-ननु जन्मकालेऽपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव रूपमाविर्भावितवति संप्रति च श्रीवत्सकौस्तुभवनमालाकिरीटकुण्डलादिदिव्योपकरणशालिनि कम्बु.


  1. क. ङ. छ. विचिन्वन्ति ।
  2. क. ग. ङ. छ. ज. अ. मामीश्व'।
  3. क. झ. ब. नातीवाऽऽदि ।