पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
[अ०६ क्ष्लो०३३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव [१]तत्सदा ।
इदं जगदहं चेति बोधाभ्यासं विदुः परम् " इति ॥

 दृश्यावभासविरोधियोगाभ्यासो मनोनिरोधाभ्यासः । तदुक्तम्-----

" अत्यन्ताभावसंपत्तौ ज्ञातुर्जेयस्य वस्तुनः ।
युक्त्या शास्त्रैर्यतन्ते ये तेऽप्यत्राभ्यासिनः स्थिताः" इति ॥

 ज्ञातृज्ञेययोर्मिथ्यात्वधीरभावसंपत्तिः। स्वरूपेणाप्यप्रतीतिरत्यन्ताभावसंपत्तिस्तदर्थम् । युक्त्या योगेन ।

" दृश्यासंभवबोधेन रागद्वेषादितानवे ।
रतिर्धनोदिता याऽसौ ब्रह्माभ्यासः स उच्यते " इति ॥

 रागद्वेषादिक्षीणतारूपवासनाक्षयाभ्यास उक्तः । तस्मादुपपन्नमेतत्तत्त्वज्ञानाभ्यासेन मनोनाशाम्यासेन वासनाक्षयाभ्यासेन च रागद्वेषशून्यतया यः स्वपरसुखदुःखादिषु समदृष्टिः स परमो योगी मतो यस्तु विषमदृष्टिः स तत्त्वज्ञानवानप्यपरमो योगीति ॥ ३२ ॥

 श्री० टी०-एवं च मां भजतां योगिनां मध्ये सर्वभूतानुकम्पी श्रेष्ठ इत्याह- आत्मौपम्येनेति । आत्मौपम्येन स्वसादृश्येन यथा मम सुखं प्रियं दुःखं चाप्रियं तथाऽन्येषामपीति सर्वत्र समं पश्यन्सुखमेव सर्वेषां यो वाञ्छति न तु कस्यापि दुःखं, स योगी श्रेष्ठो ममाभिमत इत्यर्थः ॥ ३२ ॥

 म०टी०-उक्तमर्थमाक्षिपन्-

 अर्जुन उवाच-

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ॥
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्॥३३॥

 योऽयं सर्वत्रसमदृष्टिलक्षणः परमो योगः साम्येन समत्वेन चित्तगतानां रागद्वेषदीनां विषमदृष्टिहेतूनां निराकरणेन त्वया सर्वज्ञेनेश्वरेणोक्तः, हे मधुसूदन सर्ववैदिकसं- प्रदायप्रवर्तक, एतस्य त्वदुक्तस्य सर्वमनोवृत्तिनिरोधलक्षणस्य योगस्य स्थिति विद्यमानतां स्थिरां दीर्घकालानुवर्तिनी न पश्यामि न संभावयामि अहमस्मद्विधोऽन्यो वा योगाभ्यासनिपुणः । कस्मान्न संभावयसि तत्राऽऽह-चञ्चलत्वात् , मनस इति शेषः ॥ ३३ ॥

 श्री० टी०-उक्तलक्षणस्य योगस्यासंभवं मन्वानः-अर्जुन उवाच योऽय-


  1. क. छ. सर्वदा।