पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०क्ष्लो६०३]
२२३
श्रीमद्भगवद्गीता।


मिति । साम्येन मनसो लयविक्षेपशून्यतया केवलात्माकारावस्थानेन योऽयं योगस्त्वया प्रोक्त एतस्य योगस्य स्थिरां दीर्घकालं स्थिति न पश्यामि मनसश्चञ्चलत्वात् ॥ ३३ ॥

 म०टी०-सर्वलोकप्रसिद्धत्वेन तदेव चञ्चलत्वमुपपादयति-

चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् ॥
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥

चञ्चलमत्यर्थं चलं सदा चलनस्वभावं मनः, हि प्रसिद्धमेवैतत् । भक्तानां पापादिदोषान्सर्वथा निवारयितुमशक्यानपि कृषति निवारयति तेषामेव सर्वथा प्राप्तुमशक्यानपि पुरुषार्थानाकर्षति प्रापयतीति वा कृष्णः । तेन रूपेण संबोधयन्दुर्निवारमपि चित्तचाञ्चल्यं निवार्य दुष्प्रापमपि समाधिसुखं त्वमेव प्रापयितुं शक्नोषीति सूचयति । न केवलमत्यर्थं चञ्चलं किं तु प्रमाथि, शरीरमिन्द्रियाणि च प्रमथितुं क्षोभयितुं शीलं यस्य तत् , क्षोभकतया शरीरेन्द्रियसंघातस्य विवशताहेतुरित्यर्थः । किं च बलवत् , अभिप्रेताद्विषयात्केनाप्युपायेन निवारयितुमशक्यम् । । किं च दृढं विषयवासनासहस्रानुस्यूततया भेत्तुमशक्यम् । तन्तुनागवदच्छेद्यमिति भाष्ये । तन्तुनागो नागपाशः । तातनीति गुर्जरादौ प्रसिद्धो महाह्रदनिवासी जन्तुविशेषो वा । तस्यातिदृढतया बलवतो बलवत्तया प्रमाथिनः प्रमाथितयाऽतिचञ्चलस्य महामत्तवनगजस्येव मनसो निग्रहं निरोधं निर्वृत्तिकतयाऽवस्थानं सुदुष्करं सर्वथा कर्तुमशक्यमहं मन्ये, वायोरिव । यथाऽऽकाशे दोधूयमानस्य वायोनिश्चलत्वं संपाद्य निरोधनमशक्यं तद्वदित्यर्थः । अयं भावः-जातेऽपि तत्त्वज्ञाने प्रारब्धकर्मभोगाय जीवतः पुरुषस्य कर्तृत्वभोक्तृत्वसुखदुःखरागद्वेषादिलक्षणश्चित्तधर्मः क्लेशहेतुत्वाद्वाधितानुवृत्त्याऽपि बन्धो भवति । चित्तवृत्तिनिरोधरूपेण तु योगेन तस्य निवारणं जीवन्मुक्तिरित्युच्यते । यस्याः संपादनेन स योगी परमो मत इत्युक्तम् । तत्रेदमुच्यते-बन्धः किं साक्षिणो निवार्यते किं वा चित्तात् , नाऽऽद्यस्तत्त्वज्ञानेनैव साक्षिणो बन्धस्य निवारितत्वात् । न द्वितीयः स्वभावविपर्ययायोगात् , विरोधिसद्भावाच्च । न हि जलादार्द्रत्वमग्नेर्वोष्णत्वं निवारयितुं शक्यते " प्रतिक्षणपरिणामिनो हि भावा ऋते चितिशक्तेः" इतिन्यायेन प्रतिक्षणपरिणामस्वभावत्वाच्चित्तस्य । प्रारब्धभोगेन च कर्मणा कृत्स्नाविद्यातत्कार्यनाशने प्रवृत्तस्य तत्त्वज्ञानस्यापि प्रतिबन्धं कृत्वा स्वफलदानाय देहेन्द्रियादिकमवस्थापितम् । न च कर्मणा स्वफलसुखदुःखादिभोगश्चित्तवृत्तिभिर्विना संपादयितुं शक्यते । तस्माद्यद्यपि स्वाभाविकानामपि चित्तपरिणामानां कथंचिद्योगेनाभिभवः शक्येत कर्तुं तथाऽपि तत्त्वज्ञानादिव योगादापि प्रारब्धफलस्य कर्मणः प्राबल्यादवश्यंभाविनि चित्तस्य चाञ्चल्ये योगेन तन्निवारणमशक्यमह[१] स्वाबोधादेव


  1. क. ज. "ह स्ववों'।