पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० ६ क्ष्लो० ३२]
२२१
श्रीमद्भगवद्गीता।


सुखिनो मदीया इति तदा तत्सुखं स्वकीयमेव संपन्नमिति भावयतस्तत्र रागो निवर्तते । यथा स्वस्य राज्यनिवृत्तावपि पुत्रादिराज्यमेव स्वकीयं राज्यं तद्वत् । निवृत्ते च रागे वर्षाव्यपाये जलमिव चित्तं प्रसीदति । तथा " दुःखानुशयी द्वेषः " दुःखमनुशेते कश्चिद्धीवृत्तिविशेषस्तमोनुगतरजःपरिणाम ईदृशं सर्वं दुःखं सर्वदा मे मा भूदिति । तच्च शत्रुव्याघ्रादिषु सत्सु न निवारयितुं शक्यम् । न च सर्वे ते दुःखहेतवो हन्तुं शक्यन्ते । अतः स द्वेषः सदा हृदयं दहति । यदा तु स्वस्येव परेषां सर्वेषामपि दुःखं मा भूदिति करुणां दुःखिषु भावयेत्तदा वैर्यादिद्वेषनिवृत्तौ चित्तं प्रसीदति । तथा च स्मर्यते-

"प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः" इति ॥

 एतदेवेहाप्युक्तम्-आत्मौपम्येन सर्वत्रेत्यादि । तथा प्राणिनः स्वभावत एवं पुण्यं नानुतिष्ठन्ति पापं त्वनुतिष्ठन्ति । तदाहुः-

"पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ” इति ॥

 ते च पुण्यपापे अक्रियमाणक्रियमाणे पश्चात्तापं जनयतः । स च श्रुत्याऽनूदितः- "किमहं साधु नाकरवं किमहं पापमकरवम् ” इति । यद्यसौ पुण्यपुरुषेषु मुदिता भावयेत्तदा तद्वासनावान्स्वयमेवाप्रमत्तोऽशुक्लकृष्णे पुण्ये प्रवर्तते । तदुक्तं " कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरेषाम् " अयोगिनां त्रिविधं शुक्लं शुभं कृष्णमशुभं शुक्लकृष्णं शुभाशुभमिति । तथा पापपुरुषेषूपेक्षां भावयन्वयमपि तद्वासनावान्पापान्निवर्तते । ततश्च पुण्याकरणपापकरणनिमित्तस्य पश्चात्तापस्याभावे चित्तं प्रसीदति । एवं सुखिषु मैत्री भावयतो न केवलं रागो निवर्तते किं त्वसूयेर्ष्यादयोऽपि निवर्तन्ते । परगुणेषु दोषाविष्करणमसूया । परगुणानामसहनमीर्ष्या॑ । यदा मैत्रीवशात्परसुखं स्वीयमेव संपन्नं तदा परगुणेषु कथमसूयादिकं संभवेत् । तथा दुःखिषु करुणां भावयतः शत्रुवधादिकरो द्वेषो यदा निवर्तते तदा [१]दुःखि[२][त्व]प्रतियोगिकस्वसुखित्वप्रयुक्तदर्पोऽपि निवर्तते । एवं दोषान्तरनिवृत्तिरप्यूहनीया वासिष्ठरामायणादिषु । तदेवं तत्त्वज्ञानं मनोनाशो वासनाक्षयश्चेति त्रयमभ्यसनीयम् । तत्र केनापि द्वारेण पुनः पुनस्तत्त्वानुस्मरणं तत्त्वज्ञानाभ्यासः । तदुक्तम्-

"तचिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥


  1. छ. अ. दुःखम।
  2. ग. खित।