पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
[अ०६-क्ष्लो०२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


ग्निरिति व्यर्थ स्यादित्यग्निशब्देन सर्वाणि कर्माण्युपलक्ष्य निरग्निरिति संन्यासी क्रियाशब्देन चित्तवृत्तीरुपलक्ष्याक्रिय इति निरुद्धचित्तवृत्तिर्योगी च कथ्यते । तेन न निरग्निः संन्यासी मन्तव्यो न चाक्रियो योगी मन्तव्य इति यथासंख्यमुभयव्यतिरेको दर्शनीयः। एवं सति नञ्द्वयमप्युपपन्नमिति द्रष्टव्यम् ॥ १॥

 श्री०टी०-चित्ते शुद्धेऽपि न ध्यानं विना संन्यासमात्रतः ।   मुक्तिः स्यादिति षष्ठेऽस्मिन्ध्यानयोगो वितन्यते ॥ १ ॥

 पूर्वाध्यायान्ते संक्षेपेणोक्तं योगं प्रपञ्चयितुं षष्ठाध्यायारम्भः । तत्र तावत्सर्वकर्माणि मनसेत्यारभ्य संन्यासपूर्विकाया ज्ञाननिष्ठायास्तात्पर्येणाभिधानाद्दुःखरूपत्वाच्च कर्मणः सहसा संन्यासातिप्रसङ्गं प्राप्तं वारयितुं संन्यासादपि श्रेष्ठत्वेन कर्मयोगं स्तुवञ्श्रीभगवानुवाच, अनाश्रित इति द्वाभ्याम्-~-कर्मफलमनाश्रितोऽनपेक्षमाणोऽवश्यकर्तव्यतया विहितं कर्म यः करोति स एव संन्यासी योगी च, न तु निरग्निरग्निसाध्येष्टाख्यकर्मत्यागी, न चाक्रियोऽनग्निसाध्यपूर्ताख्यकर्मत्यागी च॥१॥

 म०टी०-असंन्यासेऽपि संन्यासशब्दप्रयोगे निमित्तभूतं गुणयोगं दर्शयितुमाह-

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ॥
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥२॥

 यं सर्वकर्मतत्फलपरित्यागं संन्या[१]समिति प्राहुः श्रुतयः " न्यास एवा[२]त्यरेच[३]यत् " " ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्त्थायाथ मिक्षाचर्यं चरन्ति " इत्याद्याः , योगं फलतृष्णाकर्तृत्वाभिमानयोः परित्यागेन विहितकर्मानुष्ठानं तं संन्यासं विद्धि हे पाण्डव । अब्रह्मदत्तं ब्रह्मदत्तमि (इ) त्याह तं[४] वयं मन्यामहे ब्रह्मदत्तसदृशोऽयमिति न्यायात्परशब्दः परत्र प्रयुज्यमानः सादृश्यं बोधयति गौण्या वृत्त्या तद्भावारोपेण वा। प्रकृते तु किं सादृश्यमिति तदाह-न हीति । हि यस्मादसंन्यस्तसंकल्पोऽत्यक्तफलसंकल्पः कश्चन कश्चिदपि योगी न भवति । अपि तु सर्वो योगी त्यक्तफलसंकल्स एव भवतीति फलत्यागसाम्यात्तृष्णारूपचित्तवृत्तिनिरोधसाम्याच्च गौण्या वृत्त्या कर्म्येव. संन्यासी च योगी च भवतीत्यर्थः । तथा हि-योगश्चित्तवृत्तिनिरोधः प्रमाणविपर्ययविकल्पनिद्रास्मृतय इति वृत्तयः पञ्चविधाः । तत्र प्रत्यक्षानुमानशास्त्रोपमानार्थापत्त्यभावाख्यानि प्रमाणानि षडिति वैदिकाः । प्रत्यक्षानुमानागमाः प्रमाणानि त्रीणीति योगाः । अन्तर्मावबहिर्भावाभ्यां संकोचवि-


  1. क. ख. सपदप्र ।
  2. क. छ. झ. वातिरेचयतीति ब्रा। ख. घ., अ. 'वातिरेचयतीति पु।
  3. च. ज, यदिति । पु
  4. ख. घ. ङ. च. ज. झ. ञ. ते ।