ज्ञानद्वारेणेत्याह-भोक्तारमिति । यज्ञानां तपसां च भ[१]क्तैः समर्पितानां [२]तदिच्छया
भोक्तारं पालकमिति वा । सर्वेषां लोकानां महान्तमीश्वरं सर्वेषां भूतानां सुहृदं[३] निरपेक्षोपकारिणमन्तर्यामिणं मां ज्ञात्वा मत्प्रसादेन शान्ति मोक्षमृच्छति प्राप्नोति ॥२९॥
विकल्पशङ्कापोहेन येनैवं सांख्ययोगयोः । |
इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां
संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥
अथ षष्ठोऽध्यायः।
म०टी०-योगसूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यदीरितम् ।
षष्ठस्त्वारभ्यतेऽध्यायस्तद्व्याख्यानाय विस्तरात् ॥ १ ॥
तत्र सवर्कर्मत्यागेन योगं विधास्यंस्त्याज्यत्वेन हीनत्वमाशङ्कय कर्मयोगं स्तौति द्वाभ्याम्-
श्रीभगवानुवाच- |
कर्मणां फलमनाश्रितोऽनपेक्षमाणः फलाभिसंधिरहितः सन्कार्यं कर्तव्यतया शास्त्रेण विहितं नित्यमग्निहोत्रादि कर्म करोति यः स कर्म्यपि सन्संन्यासी च योगी चेति स्तूयते । संन्यासो हि त्यागः । चित्तगतविक्षेपाभावश्च योगः । तौ चास्य विद्यते फलत्यागात्फलतृष्णारूपचित्तविक्षेपाभावाच्च । कर्मफलतृष्णात्याग एवात्र गौण्या वृत्त्या संन्यासयोगशब्दाभ्यामभिधीयते सकामानपेक्ष्य प्राशस्त्यकथनाय । अवश्यंभाविनौ हि निष्कामकर्मानुष्ठातुर्मुख्यौ संन्यासयोगौ । तस्मादयं यद्यपि न निरग्निरग्निसाध्यश्रौतकर्मत्यागी न भवति, न चाक्रियोऽग्निनिरपेक्षस्मार्तक्रियात्यागी च न भवति, तथाऽपि संन्यासी योगी चेति मन्तव्यः । अथवा न निरग्निर्न चाक्रियः संन्यासी योगी चेति मन्तव्यः । किंतु साग्निः सक्रियश्च निष्कामकर्मानुष्ठायी संन्यासी योगी चेति मन्तव्य इति स्तूयते । “ अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वान् ” इत्यत्रेव प्रशंसालक्षणया नञन्वयोपपत्तिः । अत्र चाक्रिय इत्यनेनैव सर्वकर्मसंन्यासिनि लब्धे निर.