पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०३]
१८९
श्रीमद्भगवद्गीता।


कासौ द्रष्टव्यौ । अत एव तार्किकादीनां मतभेदाः । विपर्ययो मिथ्याज्ञानं तस्य पञ्च भेदा अविद्यास्मितारागद्वेषाभिनिवेशाः । त एव च क्लेशाः । शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः प्रमाभ्रमविलक्षणोऽसदर्थव्यवहारः शशविषाणमसत्पुरुषस्य चैतन्यमित्यादिः । अभावप्रत्ययालम्बना वृत्तिर्निद्रा, चतसृणां वृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तदालम्बना वृत्तिरेव निद्रा न तु ज्ञानाद्यभावमात्रमित्यर्थः । अनुभूतविषयासंप्रमोषः प्रत्ययः स्मृतिः, पूर्वानुभवसंस्कारजं ज्ञानमित्यर्थः । सर्ववृत्तिजन्यत्वादन्ते कथनम् । लज्जादिवृत्तीनामपि पञ्चस्वेवान्तर्भावो द्रष्टव्यः । एतादृशां सर्वासां चित्तवृत्तीनां निरोधो योग इति च समाधिरिति च कथ्यते । फलसंकल्पस्तु रागाख्यस्तृतीयो विपर्ययभेदस्तन्निरोधमात्रमपि गौण्या वृत्त्या योग इति संन्यास इति चोच्यत इति न विरोधः ॥ २॥

 श्री०टी०-कुत इत्यपेक्षायां कर्मयोगस्यैव संन्यासत्वं संपादयन्नाह-यमिति । यं संन्यासमिति प्राहुः प्रकर्षेण श्रेष्ठत्वेनाऽऽहुः, "न्यास एवात्यरेचयत्" इत्यादिश्रुतेः, केवला[१]त्फलसंन्यसनाद्धेतोः, योगमेव तं जानीहि । कुत इत्यपेक्षायामितिशब्दोक्तो हेतुर्योगेऽप्यस्तीत्याह-नहीति । न संन्यस्तः फलसंकल्पो येन स कर्मनिष्ठो ज्ञानिष्ठो वा कश्चिदपि नहि योगी भवति । अतः फलसंकल्पत्यागसाम्या[२]त्संन्यासी च फलसंकल्पत्यागादेव चित्तविक्षेपामावाद्योगी च भवत्येव स इत्यर्थः ॥२॥

 म०टी०-तत्किं प्रशस्तत्वात्कर्मयोग एव यावज्जीवमनुष्ठेय इति नेत्याह-

आरुरुक्षोर्मुनर्योगं कर्म कारणमुच्यते ॥
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥३॥

 योगमन्तःकरणशुद्धिरूपं वैराग्यमारुरुक्षोरारोढुमिच्छोर्न त्वारूढस्य मुनेर्भविष्यतः कर्मफलतृष्णात्यागिनः कर्म शास्त्रविहितमग्निहोत्रादि नित्यं भगवदर्पणबुद्ध्या कृतं कारणं योगारोहणे साधनमनुष्ठेयमुच्यते वेदमुखेन मया । योगारूढस्य योगमन्तः- करणशुद्धिरूपं वैराग्यं प्राप्तवतस्तु तस्यैव पूर्व कर्मिणोऽपि सतः शमः सर्वकर्मसंन्यास एव कारणमनुष्ठेयतया ज्ञानपरिपाकसाधनमुच्यते ॥ ३ ॥

 श्री. टी-तर्हि यावज्जीवं कर्मयोग एव प्राप्त इत्याशङ्कय तस्यावधिमाहआरुरुक्षोरिति । ज्ञानयोगमारोढुं प्राप्तुमिच्छोः पुंसस्तदारोहे कारणं कर्मोच्यते चित्तशुद्धिकरत्वात् । ज्ञानयोगमारूढस्य तु तस्यैव ध्याननिष्ठस्य शमः समाधिश्चित्तविक्षेपककर्मोपरमो ज्ञानपरिपाके कारणमुच्यते ॥ ३॥


  1. ख. ग. घ. ङ. च. छ, ज. अ. 'लात्संन्य ।
  2. क. अ. म्यात्संन्यासात्सं।