पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
[अ०४क्ष्लो०७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


देहे सच्चिदानन्दघने देहत्वप्रतीतिरत आह-आत्ममाययेति । निर्गुणे शुद्धे सच्चिदानन्दरसघने मयि भगवति वासुदेवे देहदेहिभावशून्ये तद्रूपेण प्रतीतिर्मायामात्रमित्यर्थः । तदुक्तम्-

" कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ।
जगद्धिताय सोऽप्यन्त्र देहीवाऽऽभाति मायया " इति ॥
"अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् " इति च ॥

 केचित्तु नित्यस्य निरवयवस्य निर्विकारस्यापि परमानन्दस्यावयवावयविभावं वास्तवमेवेच्छन्ति ते " निर्युक्तिकं ब्रुवाणस्तु नास्माभिर्विनिवार्यते " इति न्यायेन नापवाद्याः । यदि संभवेत्तथैवास्तु किमतिपल्लवितेनेत्युपरम्यते ॥ ६ ॥

 श्री० टी०-नन्वनादेस्तव कृतो जन्म, अविनाशिनश्च कथं पुनः पुनर्जन्म येन बहूनि मे व्यतीतानीत्युच्यते। ईश्वरस्य च तव पुण्यपापविहीनस्य कथं जीववजन्मेत्यतआह-- अजोऽपीति । सत्यमेवं तथाऽपि अजोऽपि सन्नहं तथाऽव्ययात्माऽपि अनश्वरस्वभावोऽपि संस्तथेश्वरोऽपि कर्मपारतन्त्र्यरहितोऽपि सन्स्वमायया संभवामि सम्यगप्रच्युतज्ञानबलवीर्यादिशक्त्यैव भवामि । ननु तथाऽपि षोडशकलात्मकलिङ्गदेहशन्यस्य तव कुतो जन्मेत्यत उक्तं स्वां शुद्धसत्त्वात्मिकां प्रकृतिमधिष्ठाय स्वीकृत्य विशुद्धोर्जितसत्त्वमूर्त्या स्वेच्छयाऽवतरामीत्यर्थः ॥ ६ ॥

 म. टी-एवं सच्चिदानन्दघनस्य तव कदा किमर्थं वा देहिवद्वयवहार इति तत्रोच्यते-

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ॥
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ ७ ॥

 धर्मस्य वेदविहितस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्य प्रवृत्तिनिवृत्तिलक्षणस्य वर्णाश्रमतदाचारव्यङ्ग्यस्य यदा यदा ग्लानिर्हानिर्भवति हे भारत भरतवंशोद्भवत्वेन मा ज्ञानं तत्र रतत्वेन वा स्वं न धर्महानिं सोढुं शक्नोषीति संबोधनार्थः । एवं यदा यदाऽभ्युत्थानमुद्भवोऽधर्मस्य वेदनिषिद्धस्य नानाविधदुःखसाधनस्य धर्मविरोधिनस्तदा तदाऽऽत्मानं देहं सृजा[१]मि नित्यसिद्धमेव सृष्टमिव दर्शयामि मायया ॥ ७ ॥

 श्री० टी०-कदा संभवसोत्यपेक्षायामाह-यदा यदेति। धर्मस्य ग्लानिर्हानिः। अधर्मस्याभ्युत्थानमाधिक्यम् ॥ ७ ॥

 म०टी०-तत्किं धर्मस्य हानिरधर्मस्य च वृद्धिस्तव परितोषकारणं येन तस्मिन्नेव काल आविर्भवतीति तथा चानर्थावह एव तवावतारः स्यादिति नेत्याह-


  1. छ. ञ. जाम्यहमिति नि।