पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो०६]
श्रीमद्भगवद्गीता।


यात्मा भूतानामीश्वरोऽपि सन्निति । अजोऽपि सन्नित्यपूर्वदेहग्रहणमव्ययात्माऽपि सन्निति पूर्वदेहविच्छेदं भूतानां भवनधर्मणां सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानामश्विरोऽपि सन्निति धर्माधर्मवशत्वं निवारयति । कथं तर्हि देहग्रहणमित्युत्तरार्धेनाऽऽह-प्रकृतिं स्वामधिष्ठाय संभवामि प्रकृतिं मायाख्यां विचित्रानेकशक्तिमघटमानघटनापटीयसीं स्वां स्वोपाधिभूतामधिष्ठाय चिदाभासेन वशीकृत्य संभवामि तत्परिणामविशेषैरेव देहवानिव जात इव च भवामि । अनादिमायैव मदुपाधिभूता यावत्कालस्थायित्वेन च नित्या जगत्कारणत्वसंपादिका मदिच्छयैव प्रवर्तमाना विशुद्धसत्त्वमयत्वेन मम मूर्तिस्तद्विशिष्टस्य चाजत्वमव्ययत्वमीश्वरत्वं चोपपन्नम् । अतोऽनेन नित्येनैव देहेन विवस्वन्तं च त्वां चप्रतीमं योगमुपदिष्टवानहमित्युपपन्नम् । तथाच श्रुति:-"आकाशशरीरं ब्रह्म" इति आकाशोऽत्राव्याकृतम् । आकाश एव तदोतं च प्रोतं च " इत्यादौ तथा दर्श- नात्, “ आकाशस्तल्लिङ्गात् ," इति न्यायाञ्च । तर्हि भौतिकविग्रहाभावात्तद्धर्ममनुप्यत्वादिप्रतीतिः कथमिति चेत्तत्राऽऽह-आत्ममाययेति । मन्माययैव मयि मनुष्यत्वादिप्रतीतिलोकानुग्रहाय न तु वस्तुवृत्त्येति भावः । तथा चोक्तं मोक्षधर्मे-

माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं न तु मां द्रष्टुमर्हसि " इति ॥

 सर्वभूतगुणैर्युक्तं कारणोपाधिं मां चर्मचक्षुषा द्रष्टुं नार्हसीत्यर्थः । उक्तं च भगवता भाष्यकारेण-"स च भगवाञ्ज्ञानेश्वर्यशक्तिबलवीर्यतेजोभिः सदा संपन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृतिं वशीकृत्याजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन्स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वल्लक्ष्यते स्वप्रयोजनामावेऽपि भूतानुजिघृक्षया" इति । व्याख्यातृभिश्चोक्तं स्वेच्छाविनिर्मितेन मायामयेन दिव्येन रूपेण संबभूवेति ।

नित्यो यः कारणोपाधिर्मायाख्योऽनेकशक्तिमान् ।
स एव भगवद्देह इति भाष्यकृतां मतम् ॥

 अन्ये तु परमेश्वरे देहदेहिभावं न मन्यन्ते । किं तु यश्च नित्यो विभुः सच्चिदानन्दघनो भगवान्वासुदेवः परिपूर्णो निर्गुणः परमात्मा स एव तद्विग्रहो नान्यः कश्चिद्भौतिको मायिको वेति । अस्मिन्पक्षे योजना-" आकाशवत्सर्वगतश्च नित्यः " " अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा " इत्यादिश्रुतेः "असंभवस्तु सतोऽनुपपत्तेः" "नाऽऽत्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः" इत्यादिन्यायाच्च वस्तुगत्या जन्मविनाशरहितः सर्वभासकः सर्वकारणमायाधिष्ठानत्वेन सर्वभूतेश्वरोऽपि सन्नहं प्रकृतिं स्वभावं सच्चिदानन्दघनैकरसम् । मायां व्यावर्तयति-स्वामिति । निजस्वरूपमित्यर्थः । “ स भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि " इति श्रुतेः । स्वस्वरूपमधिष्ठाय स्वरूपावस्थित एव सन्संभवामि देहदेहिभावमन्तरेणैव देहिवद्वयवहरामि । कथं तर्ह्य-