पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो०८-५]
१३३
श्रीमद्भगवद्गीता।


परित्राणाय साधूनां विनाशाय च दुष्कृताम् ॥
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८॥

 धर्महान्या हीयमानानां साधूनां पुण्यकारिणां वेदमार्गस्थानां परित्राणाय परितः सर्वतो रक्षणाय । तथाऽधर्मवृद्ध्या वर्धमानानां दुष्कृतां पापकारिणां वेदमार्गविरोधिनां विनाशाय च । तदुभयं कथं स्यादिति तदाह--धर्मसंस्थापनार्थाय धर्मस्य सम्यगधर्मनिवारणेन स्थापनं वेदमार्गपरिरक्षणं धर्मसंस्थापनं तदर्थं संभवामि पूर्ववत्, युगे युगे प्रतियुगम् ॥ ८॥

 श्री० टी०-किमर्थमित्यपेक्षायामाह-परित्राणायेति । साधूनां स्वधर्मवर्तिनां रक्षणाय दुष्टं कर्म कुर्वन्तीति दुष्कृतस्तेषां वधाय च । एवं धर्मस्य संस्थापनार्थाय साधुरक्षणेन दुष्टवधेन च धर्म स्थिरीकर्तुं युगे युगे तत्तदवसरे संभवामीत्यर्थः । न चैवं दुष्टनिग्रहं कुर्वतोऽपि नैधृण्यं शङ्कनीयम् । यथा चाऽऽहुः-

" लालने ताडने मातुर्नाकारुण्यं यथाऽर्भके ॥
तद्वदेव महेशस्य नियन्तुर्गुणदोषयोः" इति ॥ ८ ॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ॥
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥

 म०टी०जन्म नित्यसिद्धस्यैव मम सच्चिदानन्दघनस्य लीलया तथाऽनुकरणम् । कर्म च धर्मसंस्थापनेन जगत्परिपालनं मे मम नित्यसिद्धेश्वरस्य दिव्यमप्राकृतमन्यैः कर्तुमशक्यमीश्वरस्यैवासाधारणम् । एवमजोऽपि सन्नित्यादिना प्रतिपादितं यो वेत्ति तत्त्वतो भ्रमनिवर्तनेन । मूढैर्हि मनुष्यत्वभ्रान्त्या भगवतोऽपि गर्भवासादिरूपमेव जन्म स्वभोगार्थमेव कर्मेत्यारोपितम् । परमार्थतः शुद्धसच्चिदानन्द[१]रूपत्वज्ञानेन तदपनुद्याजस्यापि मायया जन्मानुकरणमकर्तुरपि परानुग्रहाय कर्मानुकरणमित्येवं यो वेत्ति स आत्मनोऽपि तत्त्वस्फुरणात्त्यक्त्वा देहमिमं पुनर्जन्म नैति । किंतु मां भगवन्तं वासुदेवमेव सच्चिदानन्दघनमेति संसारान्मुच्यत इत्यर्थः । हेऽर्जुन ॥९॥

 श्री०टी-एवंविधानामीश्वरजन्मकर्मणां ज्ञाने फलमाह-जन्म कर्मेति । मे जन्म स्वेच्छाकृतं कर्म च धर्मपालनरूपं दिव्यमलौकिकं तत्त्वतः परानुग्रहार्थमेवेति यो वेत्ति स देहाभिमानं त्यक्त्वा पुनर्जन्म नैति न प्राप्नोति किं तु मामेव प्राप्नोति ॥९॥

 म०टी०-मामेति सोऽर्जुनेत्युक्तं तत्र स्वस्य सर्वमुक्तप्राप्यतया पुरुषार्थत्वमस्य मोक्षमार्गस्यानादिपरम्परागतत्वं च दर्शयति-


  1. क. ग. 'न्दधनरू।