आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ॥ |
ज्ञायतेऽनेनेति ज्ञानमन्तःकरणं विवेक[१] २ [२]विज्ञानं वेदंशब्दनिर्दिष्टमेतेन कामेनाऽऽवृतम् । तथाऽप्यापाततः सुखहेतुत्वादुपादेयः स्यादित्यत आह-ज्ञानिनो नित्यवैरिणा । अज्ञो हि विषयभोगकाले काम मित्रमिव पश्यंस्तत्कार्ये दुःखे प्राप्ते वैरित्वं जानाति कामेनाहं दुःखित्वमापादित इति । ज्ञानी तु भोगकालेऽपि जानात्यनेनाहमनर्थे प्रवेशित इति । अतो विवेकी दुःखी भवति भोगकाले च तत्परिणामे चानेनेति ज्ञानिनोऽसौ नित्यवैरीति सर्वथा तेन हन्तव्य एवेत्यर्थः । तर्हि किंस्वरूपोऽसावित्यत आहकामरूपेण काम इच्छा तृष्णा सैव रूपं यस्य तेन । हे कौन्तेयेति संबन्धाविष्कारेण प्रेमाणं सूचयति । ननु विवेकिनो हन्तव्योऽप्यविवेकिन उपादेयः स्यादित्यत आहदुप्पूरेणानलेन च । चकार उपमार्थः । न विद्यतेऽलं पर्याप्तिर्यस्येत्यनलो वह्निः । स यथा हविषा पूरयितुमशक्यस्तथाऽयमपि भोगेनेत्यर्थः । अतो निरन्तरं संतापहेतुत्वाद्विवेकिन इवाविवेकिनोऽपि हेय एवासौ । तथा च स्मृतिः--
न जातु कामः कामानामुपभोगेन शाम्यति । |
अथवेच्छाया विषयसिद्धिनिवर्त्यत्वादिच्छारूप: कामो विषयभोगेन(ण) खयमेव निवर्तिष्यते किं तत्रातिनिर्वन्धेनेत्यत उक्तं----दुष्प्रेणानलेन चेति । विषयसिध्ध्या तत्कालमिच्छातिरोधानेऽपि पुनः प्रादुर्भावान्न विषयसिद्धिरिच्छानिवर्तिका । किंतु विषयदोषदृष्टिरेव तथेति भावः ॥ ३९ ॥
श्री०टी०-इदंशब्दनिर्दिष्टं दर्शयन्वैरित्वं स्फुटयति-आवृतमिति । इद[३] विवेकज्ञानमेतेनाऽऽवृतम् । अज्ञस्य खलु भोगसमये कामः सुखहेतुरेव । परिणामे तु वैरितां प्रपद्यते । ज्ञानिनः पुनस्तत्कालमप्यनर्थानुसंधानादुःखहेतुरेवेति नित्यवैरिणेत्युक्तम् । किं च विषयैः पूर्यमाणोऽपि दुष्पूरः । आ[४]पूर्यमाणस्तु शोकसंतापहेतुत्वादनल. तुल्यः । अनेन सर्वान्प्रति नित्यवैरित्वमुक्तम् ॥ ३९ ॥
म०टी०-ज्ञाते हि शत्रोरधिष्ठाने सुखेन स जेतुं शक्यत इति तदधिष्ठानमाह-
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ॥ |