पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०३क्ष्लो.०४१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 इन्द्रियाणि शब्दस्पर्शरूपरसगन्धग्राहकाणि श्रोत्रादीनि वचनादानगमनविसर्गानन्दजनकानि वागादीनि च । मनः संकल्पात्मकं बुद्धिरध्यवसायात्मिका च । अस्य कामस्याधिष्ठानमाश्रय उच्यते । यत एतैरिन्द्रियादिमिः स्वस्वव्यापारवद्भिराश्रयर्विमोहयति विविधं मोहयति एष कामो ज्ञानं विवेकज्ञानमावृत्याऽऽच्छाद्य देहिनं देहाभिमानिनम् ॥ ४०॥

 श्री०टी०-इदानीं तस्याधिष्ठानं कथयञ्जयोपायमाह-इन्द्रियाणीतिद्वाभ्याम्विषयदर्शनश्रवणादिभिः संकल्पेनाध्यवसायेन च कामस्याऽऽविर्भावादिन्द्रियाणि च मनश्च बुद्धिश्वास्याधिष्ठानमुच्यते । एतैरिन्द्रियादिभिर्दर्शनादिव्यापारवद्भिराश्रयभूतैर्विवेकज्ञानमावृत्य देहिनं विमोहयति ॥ ४० ॥

म०टी०-यस्मादेवम् -
 तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
 पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

 यस्मादिन्द्रियाधिष्ठानः कामो देहिनं मोहयति तस्मात्त्वमादौ मोहनात्पूर्व कामनिरोधात्पूर्वमिति वा । इन्द्रियाणि श्रोत्रादीनि नियम्य वशीकृत्य, तेषु हि वशीकृतेषु मनोबुद्ध्योरपि वशीकरणं सिध्यति संकल्पाध्यवसाययो र्बाह्येन्द्रियप्रवृत्तिद्वारैवानर्थहेतुत्वात् । अत इन्द्रियाणि मनो बुद्धिरिति पूर्व पृथनिर्दिश्यापीहेन्द्रियाणीत्येतावदुक्तम् । इन्द्रियत्वेन तयोरपि संग्रहो वा । हे भरतर्षभ महावंशप्रसूतत्वेन समर्थोऽसि । पाप्मानं सर्वपापमूलभूतमेनं कामं वैरिणं प्रजहिहि परित्यज । हि स्फुटं प्रजहि प्रकर्षेण मारयेति वा । जहि शत्रुमित्युपसंहाराच्च । ज्ञानं शास्त्राचार्योपदेश परोक्षं विज्ञानमपरोक्षं तत्फलं तयोर्ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोनाशनम् ॥ ४१ ॥

 श्री०टी०-यस्मादेवम्-तस्मात्त्वमिति । आदौ विमोहात्पूर्वमेवेन्द्रियाणि मनो बुद्धिं च नियम्य पापरूपमेनं कामं हि स्फुटं प्रजहि घातय । यद्वा प्रजहिहि परित्यज । ज्ञानमात्मविषयं विज्ञानं शास्त्रीयं तयोर्ना[१]शनम् । यद्वा ज्ञानं शास्त्राचार्योपदेशजं, विज्ञानं निदिध्यास[२]नजं, "तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत" इति श्रुतेः॥४१॥

 म० टी०-ननु यथाकथंचिद्वाह्येन्द्रियनियमसंभवेऽप्यान्तरतृष्णात्यागोऽतिदुष्कर इति चेत् । न, "रसोऽप्यस्य परं दृष्ट्वा निवर्तते” इत्यत्र परदर्शनस्य रसाभिधा[३]नीयकतृष्णात्यागसाधनस्य प्रागुक्तेः । तर्हि कोऽसौ परो यद्दर्शनात्तृष्णानिवृत्तिरित्याशय शुद्धमात्मानं परशब्दवाच्यं देहादिभ्यो विविच्य दर्शयति-


  1. क. ग. घ. ङ. च. छ. म. शकम् ।
  2. ख. ग. घ. इ. च. छ. ज. झ. न. सनं त'।
  3. भ. 'धाय'।